Loading data... On slow networks this could take a few minutes.
100%

तदद्भुतं संसदि रात्रिवृत्तं
प्रातर्द्विजेभ्यो नृपतिः शशंस ।
श्रुत्वा त एनं कुलराजधान्या
साक्षात्पतित्वे वृतमभ्यनन्दन् ॥

अन्वयः AI प्रातः नृपतिः तत् अद्भुतम् रात्रि-वृत्तम् संसदि द्विजेभ्यः शशंस । तत् श्रुत्वा ते, कुल-राजधान्या साक्षात् पतित्वे वृतम् एनम् अभ्यनन्दन् ।
सञ्जीविनीटीका (मल्लिनाथः) तदिति॥ नृपतिः कुशस्तदद्भुतं रात्रिवृत्तान्तं प्रातः संसदि सभायां द्विजेभ्यः शशंस। ते द्विजाः श्रुत्वैनं कुलराजधान्या साक्षात् स्वयमेव पतित्वे विषये वृतमभ्यनन्दन्। पतित्वेन वृतोऽसीत्यपूजयन्। आशीर्भिरिति शेषः। अत्र गार्ग्यः-दृष्ट्वा स्वप्नं शोभनं नैव सुप्यात्पश्चाद्दृष्टो यः स पाकं विधत्ते। शंसेदिष्टं तत्र साधुर्द्विजेभ्यस्ते चाशीर्भिः प्रीणयेयुर्नरेन्द्रम्। इदमपि स्वप्नतुल्यमिति भावः ॥
Summary AI In the morning, the king (Kusha) narrated that wondrous event of the night to the Brahmins in his assembly. Hearing it, they congratulated him for being personally chosen for lordship by the ancestral capital itself.
सारांश AI प्रातःकाल राजा कुश ने ब्राह्मणों को रात्रि की उस अद्भुत घटना के बारे में बताया। यह सुनकर कि स्वयं अयोध्या ने उन्हें चुना है, ब्राह्मणों ने हर्ष व्यक्त किया।
पदच्छेदः AI
तत्तद् (२.१) that
अद्भुतंअद्भुत (२.१) wondrous
संसदिसंसद् (७.१) in the assembly
रात्रिवृत्तंरात्रिवृत्त (२.१) event of the night
प्रातःप्रातर् in the morning
द्विजेभ्यःद्विज (४.३) to the Brahmins
नृपतिःनृपति (१.१) the king
शशंसशशंस (√शंस् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) narrated
श्रुत्वाश्रुत्वा (√श्रु+क्त्वा) having heard
तेतद् (१.३) they
एनंएतद् (२.१) him
कुलराजधान्याकुलराजधानी (३.१) by the ancestral capital
साक्षात्साक्षात् directly
पतित्वेपतित्व (७.१) for lordship
वृतम्वृत (√वृ+क्त, २.१) chosen
अभ्यनन्दन्अभ्यनन्दन् (अभि√नन्द् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) congratulated
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
द्भु तं सं दि रा त्रि वृ त्तं
प्रा र्द्वि जे भ्यो नृ तिः शं
श्रु त्वा नं कु रा धा न्या
सा क्षा त्प ति त्वे वृ भ्य न्दन्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.