Loading data... On slow networks this could take a few minutes.
100%

कालान्तरश्यामसुधेषु नक्त-
मितस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि
हर्म्येषु मूर्च्छन्ति न चन्द्रपादाः ॥

अन्वयः AI कालान्तर-श्याम-सुधेषु, इतः ततः रूढ-तृण-अङ्कुरेषु हर्म्येषु, मुक्ता-गुण-शुद्धयः अपि ते चन्द्र-पादाः नक्तम् न मूर्च्छन्ति ।
सञ्जीविनीटीका (मल्लिनाथः) कालेति॥ कालान्तरेण कालभेदवशेन श्यामसुधेषु मलिनचूर्णेष्वितस्ततो रूढतृणाङ्कुरेषु हर्म्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छ्यं येषां तादृशा अपि। ततः पूर्वं ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः। पादा रश्म्यङ्घितुर्यांशाः इत्यमरः। न मूर्च्छन्ति। न प्रति फलन्तीत्यर्थः ॥
Summary AI On the palaces, whose white plaster has blackened over time and where blades of grass have sprouted, even the moonbeams, though pure as strings of pearls, do not shine brightly at night.
सारांश AI काली पड़ चुकी सफेदी और घास उगे हुए महलों पर अब चंद्रमा की निर्मल किरणें भी मोतियों की माला जैसी शोभा नहीं बिखेर पातीं।
पदच्छेदः AI
कालान्तरश्यामसुधेषुकालान्तरश्याम–सुध (७.३) on the (palaces) whose plaster is blackened over time
नक्तम्नक्तम् at night
इतस्ततःइतस्ततः here and there
रूढतृणाङ्कुरेषुरूढतृणअङ्कुर (७.३) where blades of grass have sprouted
तेतद् (१.३) those
एवएव even
मुक्तागुणशुद्धयःमुक्तागुणशुद्धि (१.३) pure as strings of pearls
अपिअपि also
हर्म्येषुहर्म्य (७.३) on the palaces
मूर्च्छन्तिमूर्च्छन्ति (√मूर्छ् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) do not shine brightly
not
चन्द्रपादाःचन्द्रपाद (१.३) moonbeams
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
का ला न्त श्या सु धे षु क्त
मि स्त तो रू तृ णा ङ्कु रे षु
मु क्ता गु शु द्ध यो ऽपि
र्म्ये षु मू र्च्छ न्ति न्द्र पा दाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.