Loading data... On slow networks this could take a few minutes.
100%

सोपानमार्गेषु च येषु रामा
निक्षिप्तवत्यश्चरणान्सरागान् ।
सद्योहतन्यङ्कुभिरस्रदिग्धं
व्याघ्रैः पदं तेषु निधीयते मे ॥

अन्वयः AI येषु सोपान-मार्गेषु च रामाः स-रागान् चरणान् निक्षिप्तवत्यः, तेषु (मार्गेषु) मे (नगर्याम्) सद्यः-हत-न्यङ्कुभिः व्याघ्रैः अस्र-दिग्धम् पदम् निधीयते ।
सञ्जीविनीटीका (मल्लिनाथः) सोपानेति॥ किंच, येषु सोपानमार्गेषु रामा रमण्यः सरागाँल्लाक्षारसार्द्राश्चरणान्निक्षिप्तवत्यः। तेषु मे मम मार्गेषु सद्योहतन्यङ्कुभिर्मारितमृगैर्व्याघ्नैरस्रदिग्धं रुधिरलिप्तं पदं निधीयते ॥
Summary AI And on those very stairways where beautiful women once placed their feet, reddened with lac dye, now tigers, having just killed deer, place their blood-stained paws.
सारांश AI जिन सीढ़ियों पर कभी स्त्रियाँ अपने रंगे हुए कोमल पैर रखती थीं, वहाँ अब बाघों द्वारा मारे गए हिरणों के खून से सने पदचिह्न दिखाई देते हैं।
पदच्छेदः AI
सोपानमार्गेषुसोपानमार्ग (७.३) on the stairways
and
येषुयद् (७.३) on which
रामाःरामा (१.३) beautiful women
निक्षिप्तवत्यःनिक्षिप्तवत् (नि√क्षिप्+क्तवतु, १.३) had placed
चरणान्चरण (२.३) feet
सरागान्सराग (२.३) reddened (with lac-dye)
सद्योहतन्यङ्कुभिःसद्यस्हतन्यङ्कु (३.३) by those who have just killed deer
अस्रदिग्धंअस्रदिग्ध (२.१) blood-stained
व्याघ्रैःव्याघ्र (३.३) by tigers
पदंपद (२.१) paw (footstep)
तेषुतद् (७.३) on them
निधीयतेनिधीयते (नि√धा भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is placed
मेअस्मद् (६.१) my (in my city)
छन्दः इन्द्रवज्रा [११: ततजगग]
छन्दोविश्लेषणम्
१० ११
सो पा मा र्गे षु ये षु रा मा
नि क्षि प्त त्य श्च णा न्स रा गान्
द्यो न्य ङ्कु भि स्र दि ग्धं
व्या घ्रैः दं ते षु नि धी ते मे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.