वृक्षेशया यष्टिनिवासभङ्गा-
न्मृदङ्गशब्दापगमादलास्याः ।
प्राप्ता दवोल्काहतशेषबर्ह्याः
क्रीडामयूरा वनबर्हिणत्वम् ॥

अन्वयः AI यष्टि-निवास-भङ्गात् वृक्ष-ईशयाः, मृदङ्ग-शब्द-अपगमात् अलास्याः, दव-उल्का-हत-शेष-बर्ह्याः क्रीडा-मयूराः वन-बर्हिणत्वम् प्राप्ताः ।
सञ्जीविनीटीका (मल्लिनाथः) वृक्षेशया इति॥ यष्टिरेव निवासः स्थानं तस्य भङ्गात्। वृक्षे शेरत इति वृक्षेशयाः। अधिकरणे शेतेः (अष्टाध्यायी ३.२.१५ ) इत्यच्प्रत्ययः। शयवासवासिष्वकालात् (अष्टाध्यायी ६.३.१८ ) इत्यलुक्सप्तम्याः। मृदङ्गशब्दानामपगमादभावादलास्या नृत्यशून्याः। दवोऽरण्यवह्निः। दवदावौ वनारण्यवह्नी इत्यमरः (अमरकोशः ३.३.२१७ ) । तस्योल्काभिः स्फुलिङ्गैर्हेतेभ्यः शेषाणि बर्हाणि येषां ते क्रीडामयूरा वनबर्हिणत्वं वनमयूरत्वं प्राप्ताः ॥
Summary AI The pet peacocks, now roosting in trees because their perches are broken, no longer dancing due to the absence of the mṛdaṅga's sound, and with their tail feathers singed by forest fires, have reverted to being wild peacocks.
सारांश AI मृदंग की ध्वनि के अभाव में नृत्य भूल चुके पालतू मोर अब जंगली हो गए हैं और दावानल से उनके पंख भी झुलस गए हैं।
पदच्छेदः AI
वृक्षेशयावृक्ष–ईशय (१.३) roosting in trees
यष्टिनिवासभङ्गात्यष्टिनिवासभङ्ग (५.१) due to the breaking of their perches
मृदङ्गशब्दापगमात्मृदङ्गशब्दअपगम (५.१) due to the absence of the mṛdaṅga's sound
अलास्याःअलास्य (१.३) not dancing
प्राप्ताःप्राप्त (प्र√आप्+क्त, १.३) have attained
दवोल्काहतशेषबर्ह्याःदवउल्काहतशेषबर्ह (१.३) with their tail-feathers remaining singed by forest-fire sparks
क्रीडामयूराःक्रीडामयूर (१.३) the pet peacocks
वनबर्हिणत्वम्वन–बर्हिणत्व (२.१) the state of being wild peacocks
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वृ क्षे या ष्टि नि वा ङ्गा
न्मृ ङ्ग ब्दा मा ला स्याः
प्रा प्ता वो ल्का शे र्ह्याः
क्री डा यू रा र्हि त्वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.