निशआसु भास्वत्कलनूपुरा-
णां यः संचरोऽभूदभिसारिकाणाम् ।
नदन्मुखोल्काविचितामिषाभिः
स वाह्यते राजपथः शिवाभिः ॥

अन्वयः AI यः राजपथः निशासु भास्वत्-कल-नूपुराणाम् अभिसारिकाणाम् संचरः अभूत्, सः राजपथः नदत्-मुख-उल्का-विचित-आमिषाभिः शिवाभिः वाह्यते ।
सञ्जीविनीटीका (मल्लिनाथः) निशास्विति॥ निशासु भास्वन्ति दीप्तिमन्ति कलान्यव्यक्तमधुराणि नूपुराणि यासां तासामभिसारिकाणाम्। कान्तार्थइनी तु या याति संकेतं साऽभिसारिका इत्यमरः। यः राजपथः संचरत्यनेनेति संचरः संचारसाधनमभूत्। गोचरसंचर- इत्यमरः। यः राजपथः संचरत्यनेनेति संचरः संचारसाधनमभूत्। गोचरसंचर- (अष्टाध्यायी ३.३.११९ ) इत्यादिना घप्रत्ययान्तो निपातः। नदत्सु मुखेषु या उल्कास्तभिर्विचितामिषाभिरन्विष्टमांसाभिः शिवाभिः क्रोष्ट्रीभिः स राजपथो दाह्यते गम्यते। वहेरन्यो वहिधातुरस्तीत्युपदेशः ॥
Summary AI That royal road, which at night was the path for clandestine lovers with sweetly tinkling anklets, is now traversed by howling jackals carrying torches in their mouths as they search for flesh.
सारांश AI जिन राजपथों पर कभी नूपुरों की झंकार गूंजती थी, वहाँ अब सियारिनें अपने जलते हुए मुख की रोशनी में मांस खोजती हुई भटकती हैं।
पदच्छेदः AI
निशासुनिशा (७.३) at nights
भास्वत्कलनूपुराणाम्भास्वत्कलनूपुर (६.३) of those with shining, tinkling anklets
यःयद् (१.१) which
संचरःसंचर (१.१) path
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
अभिसारिकाणाम्अभिसारिका (६.३) of the female lovers going to a tryst
नदन्मुखोल्काविचितामिषाभिःनदत्मुखउल्काविचितआमिष (३.३) by those searching for flesh with torches in their howling mouths
सःतद् (१.१) that
वाह्यतेवाह्यते (√वह् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is traversed
राजपथःराजपथ (१.१) royal road
शिवाभिःशिवा (३.३) by jackals
छन्दः उपेन्द्रवज्रा [११: जतजगग]
छन्दोविश्लेषणम्
१० ११ १२
नि सु भा स्व त्क नू पु रा
णां यः सं रो ऽभू भि सा रि का णाम्
न्मु खो ल्का वि चि ता मि षा भिः
वा ह्य ते रा थः शि वा भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.