Loading data... On slow networks this could take a few minutes.
100%

विशीर्णतल्पाट्टशतो निवेशः
पर्यस्तसालः प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्यं
दिनान्तमुग्रानिलभिन्नमेघम् ॥

अन्वयः AI प्रभुणा विना मे विशीर्ण-तल्प-अट्ट-शतः पर्यस्त-सालः निवेशः, उग्र-अनिल-भिन्न-मेघम् अस्त-निमग्न-सूर्यम् दिनान्तम् विडम्बयति ।
सञ्जीविनीटीका (मल्लिनाथः) विशीर्णेति॥ तल्पान्यट्टालिकाः। तल्पं शय्याट्टदारेषु इत्यमरः (अमरकोशः ३.३.१३८ ) । अट्टानि गृहभेदः। अट्टं भक्ते च शुष्के च क्षौमेऽत्यर्थेगृहान्तरे इति विश्वः। विशीर्णानि तल्पानामट्टानां च शतानि यस्य स तथोक्तः। विशीर्णकल्पाट्टशतो निवेशः इति वा पाठः। अट्टाः क्षौमाः। स्यादट्टः क्षौममस्त्रियाम् इत्यमरः (अमरकोशः २.२.१२ ) । ईषदसमाप्तं विशीर्णानि विशीर्णकल्पान्यट्टशतानि यस्य स तथोक्तः। पर्यस्तसालः स्रस्तप्राकारः। प्राकारो वरणः सालः इत्यमरः (अमरकोशः २.२.३ ) । प्रभुणा स्वामिना विनैवंभूतो मे निवेशः निवेशनम्। अस्तनिमग्नसूर्यमस्ताद्रिलीनार्कमुग्रानिलेन भिन्नमेघं दिनान्तं विडम्बयत्यनुकरोति ॥
Summary AI Without its lord, this city, with its hundreds of crumbling upper-story chambers and ruined walls, resembles the end of a day when the sun has set and clouds are scattered by a fierce wind.
सारांश AI स्वामी के बिना टूटे हुए भवनों वाली मेरी यह नगरी अस्त होते सूर्य और प्रचंड वायु से फटे बादलों वाली संध्या के समान भयानक लगती है।
पदच्छेदः AI
विशीर्णतल्पाट्टशतोविशीर्णतल्पअट्टशत (१.१) with its hundreds of crumbling upper-story chambers
निवेशःनिवेश (१.१) city
पर्यस्तसालःपर्यस्तसाल (१.१) with its surrounding walls in ruins
प्रभुणाप्रभु (३.१) by the lord
विनाविना without
मेअस्मद् (६.१) my
विडम्बयतिविडम्बयति (√विडम्ब् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) imitates
अस्तनिमग्नसूर्यम्अस्तनिमग्नसूर्य (२.१) with the set and submerged sun
दिनान्तम्दिनान्त (२.१) the end of the day
उग्रानिलभिन्नमेघम्उग्रअनिलभिन्नमेघ (२.१) with clouds scattered by a fierce wind
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वि शी र्ण ल्पा ट्ट तो नि वे शः
र्य स्त सा लः प्र भु णा वि ना मे
वि म्ब त्य स्त नि ग्न सू र्यं
दि ना न्त मु ग्रा नि भि न्न मे घम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.