स निवेश्य कुशावत्यां रिपुनागाङ्गुशं कुशम् ।
शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥

अन्वयः AI सः (रामः) रिपुनागाङ्कुशं कुशं कुशावत्यां निवेश्य, सतां सूक्तैः जनिताश्रुलवं लवं शरावत्यां (निवेश्य च उदक् प्रतस्थे)।
सञ्जीविनीटीका (मल्लिनाथः) स इति॥ उदगिति च। युग्मम्। स्थिरधीः स रामः। रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा। सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम्। लवो लेशे विलासे च छेदने रामनन्दने इति विश्वः। शरावत्यां पुर्याम्। शरादीनां च (अष्टाध्यायी ६.३.१२० ) इति शर-कुश शब्दयोर्दीर्घः। निवेश्य। सानुजोऽग्निपुरःसरः सन्। पत्यौ भर्तरि वात्सल्यादनुरागात्। गृहान् वर्जयित्वा गृहवर्जम्। द्वितीयायां च (अष्टाध्यायी ३.४.५३ ) इति णमुल्। अयं क्वचिदपरीप्सायामपीष्यते अनुदात्तं पदमेकवर्जम् (अष्टाध्यायी ६.१.१५८ ) इत्येकाचः शेषतया व्याख्यातत्वात्। परीप्सा त्वरा। अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ॥
Summary AI He (Rama) installed Kusha, who was like a goad to his elephant-like enemies, in the city of Kushavati, and Lava, for whom the good people shed tears of joy with their praises, in the city of Sharavati.
सारांश AI राम ने कुश को कुशावती में और प्रजा को अश्रुपूर्ण करने वाले लव को शरावती नगरी में राजा के रूप में प्रतिष्ठित किया।
पदच्छेदः AI
सःतद् (१.१) He (Rama)
निवेश्यनिवेश्य (नि√विश्+णिच्+ल्यप्) having installed
कुशावत्याम्कुशावती (७.१) in Kushavati
रिपुनागाङ्कुशम्रिपुनागअङ्कुश (२.१) who was a goad to the elephant-like enemies
कुशम्कुश (२.१) Kusha
शरावत्याम्शरावती (७.१) in Sharavati
सताम्सत् (६.३) of the good people
सूक्तैःसूक्त (३.३) by good words/praises
जनिताश्रुलवम्जनितअश्रुलव (२.१) for whom a drop of tear was produced
लवम्लव (२.१) Lava
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि वे श्य कु शा त्यां
रि पु ना गा ङ्गु शं कु शम्
रा त्यां तां सू क्तै
र्ज नि ता श्रु वं वम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.