वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ ।
किं तद्येन मनो हर्तुमलं स्यातां न श्रृण्वताम् ॥

अन्वयः AI रामस्य वृत्तम्, वाल्मीकेः कृतिः, तौ किंनर-स्वनौ (च) । तत् किम् (अस्ति) येन (एतत् त्रयम्) शृण्वताम् मनः हर्तुम् अलम् न स्याताम्?
सञ्जीविनीटीका (मल्लिनाथः) वृत्तमिति॥ रामस्य वृत्तं वर्ण्यम्। वस्त्विति शेषः। वाल्मीकेः कृतिः काव्यम्। गेयमिति शेषः। तौ कुशलवौ किंनरस्वनौ किंनरकण्ठौ गायकौ। पुनरिति शेषः। अत एव तत्किं येन निमित्तेन तौ शृण्वतां मनो हर्तुमलं शक्तौ न स्याताम्। सर्वं सरसमित्यर्थः ॥
Summary AI The story was of Rama, the composition was Valmiki's, and the two singers had voices like Kinnaras. What was there that would not be able to captivate the minds of the listeners?
सारांश AI राम का चरित्र, वाल्मीकि की रचना और कुश-लव का किन्नरों जैसा मधुर स्वर; ऐसा क्या था जो सुनने वालों के मन को वश में न कर लेता?
पदच्छेदः AI
वृत्तंवृत्त (१.१) the story
रामस्यराम (६.१) of Rama
वाल्मीकेःवाल्मीकि (६.१) of Valmiki
कृतिःकृति (१.१) the composition
तौतद् (१.२) those two
किंनरस्वनौकिंनरस्वन (१.२) with voices like Kinnaras
किंकिम् (१.१) what
तत्तद् (१.१) that
येनयद् (३.१) by which
मनःमनस् (२.१) the mind
हर्तुम्हर्तुम् (√हृ+तुमुन्) to captivate
अलंअलम् able
स्यातांस्याताम् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. द्वि.) would be
not
शृण्वताम्शृण्वत् (√श्रु+शतृ, ६.३) of the listeners
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वृ त्तं रा स्य वा ल्मी केः
कृ ति स्तौ किं स्व नौ
किं द्ये नो र्तु
लं स्या तां श्रृ ण्व ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.