अथ प्राचेतसोपज्ञं रामायणमितस्ततः ।
मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौः ॥

अन्वयः AI अथ गुरु-चोदितौ मैथिलेयौ कुश-लवौ प्राचेतस-उपज्ञम् रामायणम् इतः ततः जगतुः ।
सञ्जीविनीटीका (मल्लिनाथः) अथेति॥ अथ मैथिलेयौ मैथिलीतनयौ। स्त्रीभ्यो ढक् (अष्टाध्यायी ४.१.१२० ) कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ। प्राचेतसो वाल्मीकिः। उपज्ञायत इत्युपज्ञा। आतश्चोपसर्गे (अष्टाध्यायी ३.३.१०६ ) इति कर्मण्यङ्प्रत्ययः। प्राचेतसस्योपज्ञा। आतश्चोपसर्गे (अष्टाध्यायी ३.३.१०६ ) इति कर्मण्यङ्गप्रत्ययः। प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम्। प्राचेतसेनादौ ज्ञातमित्यर्थः। उपज्ञा ज्ञानमाद्यं स्यात् इत्यमरः (अमरकोशः २.७.१५ ) उपज्ञोपक्रमं तदाद्याचिख्यासायाम् (अष्टाध्यायी २.४.२१ ) इति नपुंसकत्वम्। अय्यते ज्ञायतेऽनेनेत्ययनम्। रामस्यायनं चरितं रामायणं रामायणाखअयं काव्यम्। पूर्वपदात्संज्ञायामगः (अष्टाध्यायी ८.४.३ ) इति णत्वम्। उत्तरायणमितिवत्। इतस्ततोजगतुः। गायतेर्लिट् ॥
Summary AI Then, instructed by their guru, Kusha and Lava, the sons of Sita, sang the Ramayana, which was first composed by Valmiki, here and there in the sacrificial assembly.
सारांश AI फिर वाल्मीकि द्वारा रचित रामायण का गान उनके शिष्यों, सीता के पुत्रों कुश और लव ने गुरु की आज्ञा से जगह-जगह किया।
पदच्छेदः AI
अथअथ then
प्राचेतसोपज्ञम्प्राचेतस–उपज्ञ (२.१) first composed by Prachetasa (Valmiki)
रामायणम्रामायण (२.१) the Ramayana
इतस्ततःइतस्ततस् here and there
मैथिलेयौमैथिलेय (१.२) the sons of Maithili
कुशलवौकुशलव (१.२) Kusha and Lava
जगतुःजगतुः (√गै कर्तरि लिट् (परस्मै.) प्र.पु. द्वि.) sang
गुरुचोदितौगुरुचोदित (√चोदित+णिच्+क्त, १.२) instructed by their guru
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रा चे सो ज्ञं
रा मा मि स्त तः
मै थि ले यौ कु वौ
तु र्गु रु चो दि तौः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.