श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी ॥

अन्वयः AI प्राक्-वंश-वासिनः अनन्य-जानेः पत्युः वैदेह्याः त्यागः अपि श्लाघ्यः (आसीत्), यस्मात् हिरण्मयी जाया सा एव आसीत् ।
सञ्जीविनीटीका (मल्लिनाथः) श्लाघ्य इति॥ वैदेह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव। कुतः? यस्माद् प्रान्वंशः प्राचीनस्थूणो यज्ञनस्थूणो यज्ञशालाविशेषः। तद्वासिनः। नास्त्यन्या जाया यस्य तस्यानन्यजानेः। जायाया निङ् (अष्टाध्यायी ५.४.१३४ ) इति समासान्तो निङादेशः। पत्यू रामस्य हिरण्मयी सौवर्णी। दाण्डिनायन- (अष्टाध्यायी ६.४.१७४ ) आदिदग्रेण निपातेः। सा निजैव जाया पत्न्यासीत्। कविवाक्यमेतत् ॥
Summary AI Even the abandonment of Sita by her husband, who lived in his ancestral home and had no other wife, was praiseworthy, because his ritual-wife was a golden effigy of her alone.
सारांश AI पूर्व में अयोध्या में रहने वाले और एकपत्नीव्रती राम द्वारा सीता का त्याग प्रशंसनीय था, क्योंकि उन्होंने सीता की अनुपस्थिति में उनकी स्वर्ण प्रतिमा को ही अपनी पत्नी बनाया।
पदच्छेदः AI
श्लाघ्यःश्लाघ्य (√श्लाघ्+यत्, १.१) praiseworthy
त्यागःत्याग (√त्यज्+घञ्, १.१) the abandonment
अपिअपि even
वैदेह्याःवैदेही (६.१) of Vaidehi (Sita)
पत्युःपति (६.१) of the husband
प्राग्वंशवासिनःप्राच्वंशवासिन् (६.१) who was living in his ancestral home
अनन्यजानेःअनन्यजानि (६.१) who had no other wife
सातद् (१.१) she
एवएव indeed
आसीत्आसीत् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. एक.) was
यस्मात्यद् (५.१) because
जायाजाया (१.१) wife
हिरण्मयीहिरण्मय (१.१) golden
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्ला घ्य स्त्या गो ऽपि वै दे ह्याः
त्युः प्रा ग्वं वा सि नः
न्य जा नेः सै वा सी
द्य स्मा ज्जा या हि ण्म यी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.