तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ॥

अन्वयः AI पुत्र-समागतः द्विजः वैवस्वतात् अपि त्रातुः तस्य (रामस्य) पूर्व-उदिताम् निन्दाम् स्तुत्या निवर्तयामास ।
सञ्जीविनीटीका (मल्लिनाथः) तस्येति॥ पुत्रसमागतः पुत्रेण संगतो द्विजो वैधस्वतादन्तकादपि त्रात् रक्षकस्य। भीत्रार्थानां भवहेतुः (अष्टाध्यायी १.४.२५ ) इत्यपादानात्पञ्चमी। तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ॥
Summary AI The brahmin, reunited with his son, removed with praise the blame he had previously cast upon Rama, the savior even from Yama.
सारांश AI पुनर्जीवित पुत्र को पाकर उस ब्राह्मण ने अपनी पूर्व निंदा के बदले राम की स्तुति की, जिन्होंने यमराज से भी रक्षा की थी।
पदच्छेदः AI
तस्यतद् (६.१) his (Rama's)
पूर्वोदिताम्पूर्वउदित (√उदित+क्त, २.१) previously uttered
निन्दाम्निन्दा (२.१) blame
द्विजःद्विज (१.१) the brahmin
पुत्रसमागतःपुत्रसमागत (सम्+आ√गम्+क्त, १.१) reunited with his son
स्तुत्यास्तुति (३.१) with praise
निवर्तयामासनिवर्तयामास (नि√वृत् +णिच्+आम् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) removed
त्रातुःत्रातृ (६.१) of the savior
वैवस्वतात्वैवस्वत (५.१) from Yama
अपिअपि even
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य पू र्वो दि तां नि न्दां
द्वि जः पु त्र मा तः
स्तु त्या नि र्त या मा
त्रा तु र्वै स्व ता पि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.