Loading data... On slow networks this could take a few minutes.
100%

इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः ।
तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः ॥

अन्वयः AI त्रेताग्नितेजसः इतरे अपि रघोः वंश्याः त्रयः तद्योगात् पतिवत्नीषु पत्नीषु द्विसूनवः आसन्।
सञ्जीविनीटीका (मल्लिनाथः) इतरेऽपीति॥ रघोर्वंश्या वंशे भवाः। त्रेतेत्यग्नयस्त्रेताग्नयः। तेषां तेज इव तेजो येषां ते त्रेताग्नितेजसः। इतरे रामादन्ये त्रयो भरतादयोऽपि तद्योगात्तेषां योगाद्भरतादिसंबन्धात्पतिवत्नीषु भर्तृमतीषु जीवत्पतिकासु। ख्यातिमतीष्वित्यर्थः। पतिव्रत्नी सभर्तृका इत्यमरः। अन्तर्वत्पतिवतोर्नुक् (अष्टाध्यायी ४.१.३२ ) इति ङीप्प्रत्ययो नुगागमश्च। पत्नीषु द्विसूनव आसन्। द्वौ द्वौ सूनू येषां ते द्विसूनव इति विग्रहः। क्वचित्संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत्॥
Summary AI The other three descendants of Raghu—Bharata, Lakshmana, and Shatrughna—who were as brilliant as the three sacred fires, also each became fathers of two sons through their devoted wives.
सारांश AI तेजस्वी रघुवंश के अन्य तीनों भाइयों की पत्नियों ने भी समय आने पर दो-दो पुत्रों को जन्म दिया।
पदच्छेदः AI
इतरेइतर (१.३) the other
अपिअपि also
रघोःरघु (६.१) of Raghu
वंश्याःवंश्य (१.३) descendants
त्रयःत्रि (१.३) three
त्रेताग्नितेजसःत्रेताग्नितेजस् (१.३) with the brilliance of the three sacred fires
तद्योगात्तत्योग (५.१) due to union with them
पतिवत्नीषुपतिवत्नी (७.३) in their devoted
पत्नीषुपत्नी (७.३) wives
आसन्आसन् (√अस् कर्तरि लङ् (परस्मै.) प्र.पु. बहु.) became
द्विसूनवःद्विसूनु (१.३) fathers of two sons each
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रे ऽपि घो र्वं श्या
स्त्र स्त्रे ता ग्नि ते सः
द्यो गा त्प ति त्नी षु
त्नी ष्वा न्द्वि सू वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.