धूमधूम्रो वसागन्धी ज्वालाबभ्रुशिरोरुहः ।
क्रव्याद्गणपरीवारश्चिताग्निरिव जंगमः ॥

अन्वयः AI (सः) धूम-धूम्रः, वसा-गन्धी, ज्वाला-बभ्रु-शिरोरुहः, क्रव्याद्-गण-परीवारः, जङ्गमः चिता-अग्निः इव (आसीत्) ।
सञ्जीविनीटीका (मल्लिनाथः) धूमेति॥ किंभूतो लवणः? धूम इव धूम्रः कृष्णलोहितवर्णः। धूम्रधूमलौ कृष्णलोहिते इत्यमरः (अमरकोशः १.५.१७ ) । वसागन्धो हृन्मेदोगन्धः। सोऽस्यास्तीति वसागन्धी। हृन्मेदस्तु वपा वसा इत्यमरः (अमरकोशः २.६.६५ ) । ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः। विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु इत्यमरः (अमरकोशः १.५.१७ ) । क्रव्यं मांसमदन्तीति क्रव्यादो राक्षसाः, तेषां गण एव परीवारो यस्य स तथोक्तः। अत एव जंगमश्चरिष्णुशअचिताग्निरिव स्थितः। कृशानुपक्षे, -धूमैर्धूम्रवर्णः। ज्वाला एव शिरोरुहाः। क्रव्यादो गृध्रादयः इत्यनुसंधेयम् ॥
Summary AI He was grey with smoke, smelled of fat, and his hair was tawny like flames. With a retinue of flesh-eating demons, he appeared like a moving funeral pyre.
सारांश AI धुएँ के समान मटमैला, चर्बी की गंध वाला और भूरे बालों वाला वह भयानक राक्षस हिंसक जीवों से घिरा हुआ चलती-फिरती चिता के समान था।
पदच्छेदः AI
धूमधूम्रःधूमधूम्र (१.१) grey with smoke
वसागन्धीवसागन्धिन् (१.१) smelling of fat
ज्वालाबभ्रुशिरोरुहःज्वालाबभ्रुशिरोरुह (१.१) whose hair was tawny like flames
क्रव्याद्गणपरीवारःक्रव्याद्गणपरीवार (१.१) whose retinue was a host of flesh-eaters
चिताग्निरिवचिताअग्नि (१.१)इव like a funeral pyre
जङ्गमःजङ्गम (१.१) moving
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
धू धू म्रो सा न्धी
ज्वा ला भ्रु शि रो रु हः
क्र व्या द्ग री वा
श्चि ता ग्नि रि जं मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.