अशून्यतीरां मुनिसंनिवेशै-
स्तमोपहन्त्रीं तमसां वगाह्य ।
तत्सैकतोत्सङ्गबलिक्रियाभिः
संपत्स्यते ते मनसः प्रसादः ॥

अन्वयः AI मुनिसंनिवेशैः अशून्यतीराम् तमोपहन्त्रीम् तमसाम् अवगाह्य, तत् सैकतोत्सङ्गबलिक्रियाभिः ते मनसः प्रसादः सम्पत्स्यते।
सञ्जीविनीटीका (मल्लिनाथः) अशून्येति॥ संनिविशन्ते येष्विति संनिवेशा उटजाः। अधिकरणार्थे धञ्प्रत्ययः। मुनीनां संनिवेशैरुटजैरशून्यतीरां पूर्णतीरां तमसः शोकस्य पापस्य वाऽपहन्त्रीम्। तमस्तु क्लीबे पापे नरकशोकयोः इत्यमरः। तमसां नदीं वगाह्य तत्र स्नात्वा। बलिक्रियापेक्षया पूर्वकालेता। तस्याः सैकतोत्सङ्गेषु बलिक्रियाभिरिष्टदेवतापूजाविधिभिस्ते मनसः प्रसादः संपत्स्यते भविष्यति ॥
Summary AI "By bathing in the Tamasa river, whose banks are filled with the hermitages of sages and which dispels darkness, and by making offerings on the lap of its sandy banks, tranquility of mind will be yours."
सारांश AI पापनाशिनी तमसा नदी के तट पर ऋषियों के सान्निध्य में स्नान और पूजा-अर्चना करने से तुम्हारे अशांत मन को शांति और संतोष प्राप्त होगा।
पदच्छेदः AI
अशून्यतीराम्अशून्यतीर (२.१) whose banks are not empty
मुनिसंनिवेशैःमुनिसंनिवेश (३.३) with the settlements of sages
तमोपहन्त्रीम्तमस्–उपहन्त्री (२.१) the remover of darkness
तमसाम्तमसा (२.१) the Tamasa river
अवगाह्यअवगाह्य (अव√गाह्+ल्यप्) having bathed in
तत्सैकतोत्सङ्गबलिक्रियाभिःतत्सैकतउत्सङ्गबलिक्रिया (३.३) by performing offerings on the lap of its sandy banks
सम्पत्स्यतेसम्पत्स्यते (सम्√पद् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will be attained
तेयुष्मद् (४.१) for you
मनसःमनस् (६.१) of the mind
प्रसादःप्रसाद (१.१) tranquility
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
शू न्य ती रां मु नि सं नि वे शै
स्त मो न्त्रीं सां गा ह्य
त्सै तो त्स ङ्ग लि क्रि या भिः
सं त्स्य ते ते सः प्र सा दः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.