Loading data... On slow networks this could take a few minutes.
100%

वाच्यस्त्वया मद्वचनात्स राजा
वह्नौ विशुद्धामपि यत्समक्षम् ।
मां लोकवादश्रवणादहासीः
श्रुतस्य किं तत्सदृशं कुलस्य ॥

अन्वयः AI त्वया मत् वचनात् सः राजा वाच्यः यत् (त्वम्) लोकवादश्रवणात् वह्नौ समक्षम् विशुद्धाम् अपि माम् अहासीः। तत् (कर्म) श्रुतस्य कुलस्य सदृशम् किम्?
सञ्जीविनीटीका (मल्लिनाथः) वाच्य इति॥ स राजा त्वया मद्वचनान्मद्वचनमिति कृत्वा। ल्यब्लोपे पञ्चमी। वाच्यो वक्तव्यः। किमित्यत आह वह्नौ इत्यादिभिः सप्तभिः श्लोकैः-अक्ष्णोः समीपे समक्षम्। विभक्त्यर्थेऽव्ययीभावः, सामीप्यार्थे वा। अव्ययीभावे शरत्प्रभृतिभ्यः (अष्टाध्यायी ५.४.१०७ ) इति समासान्तष्टच्प्रत्ययः। समक्षमग्रे वह्नौ विशुद्धामपि मां लोकवादस्य मिथ्यापवादस्य श्रवणाद्धेतोरहासीरत्याक्षीरिति यत्तच्छ्रुतस्य प्रख्यातस्य कुलस्य सदृशं किम्? किंत्वसदृशमित्यर्थः। यद्वा, -श्रुतस्य श्रवणस्य कुलस्य चेति योजना। कामचार्यसीति भावः ॥
Summary AI Sita tells Lakshmana to convey her message to the king: "You should tell that king from my words, 'That you abandoned me, even though I was proven pure in the fire in your presence, just from hearing public slander—is this act befitting of your renowned lineage?'"
सारांश AI सीता ने लक्ष्मण से कहा—राजा राम से कहना कि अग्नि परीक्षा में मेरी शुद्धि देखने के बाद भी उन्होंने लोक-अपवाद के कारण मेरा त्याग कर दिया; क्या यह उनके महान कुल की गरिमा के अनुकूल है?
पदच्छेदः AI
वाच्यःवाच्य (√वच्+ण्यत्, १.१) to be told
त्वयायुष्मद् (३.१) by you
मद्वचनात्मत्वचन (५.१) from my words
सःतद् (१.१) that
राजाराजन् (१.१) king
वह्नौवह्नि (७.१) in the fire
विशुद्धाम्विशुद्ध (वि√शुध्+क्त, २.१) purified
अपिअपि even
यत्यत् that
समक्षम्समक्षम् in the presence
माम्अस्मद् (२.१) me
लोकवादश्रवणात्लोकवादश्रवण (५.१) from hearing public slander
अहासीःअहासीः (√हा कर्तरि लुङ् (परस्मै.) म.पु. एक.) you abandoned
श्रुतस्यश्रुत (६.१) of the renowned
किम्किम् (१.१) is it
तत्तद् (१.१) that (act)
सदृशम्सदृश (१.१) befitting
कुलस्यकुल (६.१) of the lineage
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
वा च्य स्त्व या द्व ना त्स रा जा
ह्नौ वि शु द्धा पि त्स क्षम्
मां लो वा श्र णा हा सीः
श्रु स्य किं त्स दृ शं कु स्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.