कृताञ्जलिस्तत्र यदम्ब सत्या-
न्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः ।
तञ्चिन्त्यमानं सुकृतं तवेति
जहार लज्जां भरतस्य मातुः ॥

अन्वयः AI तत्र कृत-अञ्जलिः (रामः) “अम्ब! नः गुरुः यत् सत्यात् न अभ्रश्यत, (तेन च) स्वर्ग-फलात् (न अभ्रश्यत), तत् चिन्त्यमानं तव सुकृतम्” इति (उक्त्वा) भरतस्य मातुः लज्जां जहार।
सञ्जीविनीटीका (मल्लिनाथः) कृताञ्जलिरिति॥ तत्र निकेतने कृताञ्जलिः सन् रामः। हे अम्ब! नो गुरुः पिता स्वर्गः फलं यस्य तस्मात्सत्यान्नाभ्रश्यत न भ्रष्टवानिति यत्तदभ्रंशनं तञ्चिन्त्यमानं विचार्यमाणं तव सुकृतम्। इत्येवंप्रकारेण भरतस्य मातुः कैकेय्या लज्जां जहारापानयत्। राज्ञां प्रतिज्ञापरिपालनं स्वर्गसाधनमित्यर्थः। भरतग्रहणं तदपेक्षयापि कैकेय्यनुसरणमिति द्योतनार्थम् ॥
Summary AI There, with folded hands, Rama addressed Kaikeyi, "Mother, that our father did not swerve from his promise and thus attained heaven, should be considered your good deed." With these words, he removed the shame of Bharata's mother.
सारांश AI राम ने हाथ जोड़कर कैकेयी से कहा कि पिता जी का सत्य से न डिगना और उन्हें स्वर्ग मिलना आपके ही पुण्य का फल है। इससे भरत की माता की लज्जा दूर हो गई।
पदच्छेदः AI
कृताञ्जलिःकृतअञ्जलि (१.१) with folded hands
तत्रतत्र There
यत्यद् That/Because
अम्बअम्बा (८.१) O mother
सत्यात्सत्य (५.१) from truth
not
अभ्रश्यतअभ्रश्यत (√भ्रंश् कर्तरि लङ् (आत्मने.) प्र.पु. एक.) he fell from
स्वर्गफलात्स्वर्गफल (५.१) from the fruit of heaven
गुरुःगुरु (१.१) our father
नःअस्मद् (६.३) our
तत्तद् (१.१) that
चिन्त्यमानंचिन्त्यमान (√चिन्त्+कर्मणि+शानच्, १.१) being considered
सुकृतंसुकृत (१.१) a good deed
तवयुष्मद् (६.१) your
इतिइति thus
जहारजहार (√हृ कर्तरि लिट् (परस्मै.) प्र.पु. एक.) he removed
लज्जांलज्जा (२.१) shame
भरतस्यभरत (६.१) of Bharata
मातुःमातृ (६.१) of the mother
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
कृ ता ञ्ज लि स्त त्र म्ब त्या
न्ना भ्र श्य स्व र्ग ला द्गु रु र्नः
ञ्चि न्त्य मा नं सु कृ तं वे ति
हा ज्जां स्य मा तुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.