लङ्केश्वरप्रणतिभङ्गदृढव्रतं त
द्वन्द्यं युगं चरणयोर्जनकात्मजायाः ।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो
रन्योन्यपावनमभूदुभयं समेत्य ॥

अन्वयः AI जनक-आत्मजायाः लङ्केश्वर-प्रणति-भङ्ग-दृढ-व्रतम् तत् वन्द्यम् चरणयोः युगम्, अस्य साधोः ज्येष्ठ-अनुवृत्ति-जटिलम् शिरः च, उभयम् समेत्य अन्योन्य-पावनम् अभूत्।
सञ्जीविनीटीका (मल्लिनाथः) लङ्केश्वरप्रणतीति॥ लङ्केश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्द्यं तज्जनकात्मजायाश्चरणयोर्युगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यास्य भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वाऽन्योन्यस्य पावनं शोधकमभूत् ॥
Summary AI That venerable pair of Sita's feet, which held the firm vow of spurning Ravana's salutation, and the head of the virtuous Bharata, matted from his ascetic life following his elder brother—both, upon coming together, became mutually purifying.
सारांश AI रावण के आगे न झुकने वाले सीता के पूजनीय चरण और बड़े भाई की सेवा के व्रत के कारण जटाधारी भरत का मस्तक, जब आपस में मिले, तो दोनों ने एक-दूसरे को पावन कर दिया।
पदच्छेदः AI
लङ्केश्वरप्रणतिभङ्गदृढव्रतम्लङ्केश्वरप्रणतिभङ्गदृढव्रत (२.१) which had the firm vow of breaking the salutation of the lord of Lanka
तत्तद् (२.१) that
वन्द्यम्वन्द्य (२.१) venerable
युगम्युग (२.१) pair
चरणयोःचरण (६.२) of the feet
जनकात्मजायाःजनकआत्मजा (६.१) of Sita, daughter of Janaka
ज्येष्ठानुवृत्तिजटिलम्ज्येष्ठअनुवृत्तिजटिल (१.१) matted due to following the elder brother
and
शिरःशिरस् (१.१) the head
अस्यइदम् (६.१) of this
साधोःसाधु (६.१) of the virtuous one (Bharata)
अन्योन्यपावनम्अन्योन्यपावन (१.१) mutually purifying
अभूत्अभूत् (√भू कर्तरि लङ् (परस्मै.) प्र.पु. एक.) became
उभयम्उभय (१.१) both
समेत्यसमेत्य (सम्√इ+ल्यप्) having come together
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
ङ्के श्व प्र ति ङ्ग दृ व्र तं
द्व न्द्यं यु गं यो र्ज का त्म जा याः
ज्ये ष्ठा नु वृ त्ति टि लं शि रो ऽस्य सा धो
न्यो न्य पा भू दु यं मे त्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.