सानुप्लवः प्रभुरपि क्षणदाचराणां
भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयै
र्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः ॥

अन्वयः AI दशरथ-प्रभव-अनुशिष्टः स-अनुप्लवः क्षणदा-चराणाम् प्रभुः अपि रथान् भेजे, ये (रथाः) माया-विकल्प-रचितैः तदीयैः स्यन्दनैः अपि न तुलित-कृत्रिम-भक्ति-शोभाः (आसन्)।
सञ्जीविनीटीका (मल्लिनाथः) सानुप्लव इति॥ सानुप्लवः सानुगः। अभिसारस्त्वनुसरः सहायोऽनुप्लवोऽनुगः इइति यादवः। क्षणदाचराणां प्रभुर्विभीषणोऽपि। प्रभवत्यस्मादितिप्रभवो जनकः। दशरथः प्रभवो यस्य स दशरथप्रभवो रामः। तेनानुशिष्ट आज्ञप्तः सन्। रथान्भेजे। तानेव विशिनष्टि-ये रथा मायाविकल्परचितैः संकल्पविशेषनिर्मितैरपि तदीयैर्बिभीषणीयैः स्यन्दनै रथैस्तुलितकृत्रिमभक्तिशोभास्तिलिता समीकृता कृत्रिमा क्रियया निर्वृत्ता भक्तीनां शोभा येषां ते तथोक्ता न भवन्ति। तेऽपि तत्साम्यं न लभन्त इत्यर्थः। कृत्रिमेत्यत्रड्वितः किः(अष्टाध्यायी ३.३.८८ ) इति क्विप्रत्ययः।क्त्रेर्मम्नित्यम्` (अष्टाध्यायी ४.४.२० ) इति मबागमः॥
Summary AI Instructed by Rama, Vibhishana, the lord of the Rakshasas, along with his followers, also occupied chariots. The beauty of the artificial decorations on these chariots could not be matched even by his own chariots created through magical powers.
सारांश AI विभीषण और उनके साथी राक्षसों ने भी राम के आदेश पर रथों का उपयोग किया, जो अपनी सजावट और वैभव में उनके मायावी रथों से भी अधिक सुंदर थे।
पदच्छेदः AI
सानुप्लवःअनुप्लव (१.१) with his followers
प्रभुरपिप्रभु (१.१)अपि the lord also
क्षणदाचराणाम्क्षणदाचर (६.३) of the Rakshasas
भेजेभेजे (√भज् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) occupied
रथान्रथ (२.३) chariots
दशरथप्रभवानुशिष्टःदशरथप्रभवअनुशिष्ट (१.१) instructed by the son of Dasharatha (Rama)
मायाविकल्परचितैरपिमायाविकल्परचित (३.३)अपि even by those created by magical skill
येयद् (१.३) which
तदीयैःतदीय (३.३) by his own
not
स्यन्दनैःस्यन्दन (३.३) by chariots
तुलितकृत्रिमभक्तिशोभाःतुलितकृत्रिमभक्तिशोभा (१.३) whose beauty of artificial decoration could be matched
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
सा नु प्ल वः प्र भु पि क्ष दा रा णां
भे जे था न्द प्र वा नु शि ष्टः
मा या वि ल्प चि तै पि ये दी यै
र्न स्य न्द नै स्तु लि कृ त्रि क्ति शो भाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.