Loading data... On slow networks this could take a few minutes.
100%

पयोधरैः पुण्यजनाङ्गनानां
निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो
बुद्धेरिवाव्यक्तमुदाहरन्ति ॥

अन्वयः AI आप्तवाचः यस्याः पुण्यजनाङ्गनानां पयोधरैः निर्विष्टहेमाम्बुजरेणु ब्राह्मम् सरः बुद्धेः अव्यक्तम् इव कारणम् उदाहरन्ति।
सञ्जीविनीटीका (मल्लिनाथः) पयोधरैरिति॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत्। तत्र ताः क्रीडन्तीति व्तयज्यते। ब्रह्मण इदं ब्राह्मम्। नस्तद्धिते (अष्टाध्यायी ६.४.१४४ ) इति टिलोपः। ब्राह्मं सरो मानसाख्यं यस्याः सरय्वाः। बुद्धेर्महत्तत्त्वस्याव्यक्तं प्रधानमिव कारणम्। आप्तस्य वाच आप्तवाचो वेदाः। यद्वा, -बहुव्रीहिणा मुनयः। उदाहरन्ति प्रचक्षथे ॥
Summary AI Trustworthy sages declare that the divine Manasa lake, whose golden lotus pollen is enjoyed by the breasts of Yaksha women, is the cause of this Sarayu river, just as the unmanifest Prakriti is the cause of intellect.
सारांश AI यह सरयू का उद्गम मानसरोवर है जहाँ देवांगनाएं स्नान करती हैं। विद्वान इसे प्रकृति से उत्पन्न बुद्धि के समान ब्रह्मनिर्मित मानते हैं।
पदच्छेदः AI
पयोधरैःपयस्धर (३.३) by the breasts
पुण्यजनाङ्गनानाम्पुण्यजनअङ्गना (६.३) of the Yaksha women
निर्विष्टहेमाम्बुजरेणुनिर्विष्टहेमअम्बुजरेणु (२.१) whose golden lotus pollen has been enjoyed
यस्याःयद् (६.१) of which (river Sarayu)
ब्राह्मम्ब्राह्म (२.१) divine
सरःसरस् (२.१) lake (Manasa)
कारणम्कारण (२.१) the cause
आप्तवाचःआप्तवाच् (१.३) the trustworthy sages
बुद्धेःबुद्धि (६.१) of the intellect
इवइव like
अव्यक्तम्अव्यक्त (२.१) the unmanifest (Prakriti)
उदाहरन्तिउदाहरन्ति (उद्+आ√हृ कर्तरि लट् (परस्मै.) प्र.पु. बहु.) they cite
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
यो रैः पु ण्य ना ङ्ग ना नां
नि र्वि ष्ट हे मा म्बु रे णु स्याः
ब्रा ह्मं रः का मा प्त वा चो
बु द्धे रि वा व्य क्त मु दा न्ति
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.