तच्छ्रुत्वा शृगाल आह-स्वामिन्यद्यभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति
पुनर्यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन्न दोषः
ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति
तत्किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति
अपरं पश्चादप्यस्माभिर्वह्नि-प्रवेशः कार्यो यदि स्वामि-पादानां किंचिदनिष्टं भविष्यति
उक्तं च- यस्मिन्कुले यः पुरुषः प्रधानः स सर्व-यत्नैः परिरक्षणीयः
तस्मिन्विनष्टे स्व-कुलं विनष्टं न नाभि-भङ्गे ह्यरका वहन्ति

अन्वयः AI यस्मिन् कुले यः पुरुषः प्रधानः सः सर्व-यत्नैः परिरक्षणीयः तस्मिन् विनष्टे स्व-कुलं विनष्टं हि नाभि-भङ्गे अरकाः न वहन्ति।
Summary AI The leading person in a family must be protected with every effort. If he perishes, the entire family perishes, just as the spokes of a wheel cannot function if the nave is broken.
सारांश AI सेवक ने कहा कि यदि वह स्वयं प्राण दे तो दोष नहीं। कुल के प्रधान की रक्षा अनिवार्य है, क्योंकि उसके नष्ट होने पर पूरा वंश बिखर जाता है।
पदच्छेदः AI
तत्तद् (२.१) that
श्रुत्वाश्रुत्वा (√श्रु+क्त्वा) having heard
शृगालःशृगाल (१.१) the jackal
आहआह said
स्वामिन्स्वामिन् (८.१) O Master!
यदियदि if
अभय-प्रदानम्अभयप्रदान (२.१) assurance of safety
दत्त्वादत्त्वा (√दा+क्त्वा) having given
वधःवध (१.१) killing
क्रियतेक्रियते (√कृ भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is done
तत्तद् then
एषःएतद् (१.१) this
दोषःदोष (१.१) fault
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) occurs
पुनःपुनर् again
यदियदि if
देव-पादानाम्देवपाद (६.३) of your highness
भक्त्याभक्ति (३.१) with devotion
सःतद् (१.१) he
आत्मनःआत्मन् (६.१) of himself
जीवितव्यम्जीवितव्य (√जीव्+तव्य, २.१) life
प्रयच्छतिप्रयच्छति (प्र√यम् कर्तरि लट् (परस्मै.) प्र.पु. एक.) gives
तत्तद् then
not
दोषःदोष (१.१) fault
ततःततस् therefore
यदियदि if
सःतद् (१.१) he
स्वयम्स्वयम् himself
एवएव indeed
आत्मानम्आत्मन् (२.१) himself
वधायवध (४.१) for killing
नियोजयतिनियोजयति (नि√युज् +णिच् कर्तरि लट् (परस्मै.) प्र.पु. एक.) employs
तत्तद् then
वध्यःवध्य (१.१) fit to be killed
अन्यथाअन्यथा otherwise
अस्माकम्अस्मद् (६.३) of us
मध्यात्मध्य (५.१) from among
एकतमःएकतम (१.१) one of them
वध्यःवध्य (१.१) fit to be killed
इतिइति thus
यतःयतस् because
देव-पादाःदेवपाद (१.३) your highness
पथ्याशिनःपथ्यआशिन् (१.३) eaters of proper food
क्षुत्-निरोधात्क्षुत्निरोध (५.१) from hunger suppression
अन्त्याम्अन्त्य (२.१) final
दशाम्दशा (२.१) state
यास्यन्तियास्यन्ति (√या कर्तरि लृट् (परस्मै.) प्र.पु. बहु.) will go
तत्तद् therefore
किम्किम् what (is the use)
एतैःएतद् (३.३) by these
प्राणैःप्राण (३.३) lives
अस्माकम्अस्मद् (६.३) of us
येयद् (१.३) who
स्वामि-अर्थेस्वामिन्अर्थ (७.१) for the sake of the master
not
यास्यन्तियास्यन्ति (√या कर्तरि लृट् (परस्मै.) प्र.पु. बहु.) will be sacrificed
अपरम्अपर moreover
पश्चात्पश्चात् afterwards
अपिअपि even
अस्माभिःअस्मद् (३.३) by us
वह्नि-प्रवेशःवह्निप्रवेश (१.१) entering fire
कार्यःकार्य (√कृ+ण्यत्, १.१) should be done
यदियदि if
स्वामि-पादानाम्स्वामिन्पाद (६.३) of your highness
किञ्चित्किञ्चित् something
अनिष्टम्अनिष्ट (१.१) undesirable
भविष्यतिभविष्यति (√भू कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will happen
उक्तम्उक्त (√वच्+क्त, १.१) said
and
यस्मिन्यद् (७.१) in which
कुलेकुल (७.१) family
यःयद् (१.१) who
पुरुषःपुरुष (१.१) person
प्रधानःप्रधान (१.१) chief
सःतद् (१.१) he
सर्व-यत्नैःसर्वयत्न (३.३) with all efforts
परिरक्षणीयःपरिरक्षणीय (परि√रक्ष्+अनीयर्, १.१) should be protected
तस्मिन्तद् (७.१) in him
विनष्टेविनष्ट (वि√नश्+क्त, ७.१) destroyed
स्व-कुलम्स्वकुल (१.१) one's own family
विनष्टम्विनष्ट (वि√नश्+क्त, १.१) destroyed
not
नाभि-भङ्गेनाभिभङ्ग (७.१) when the hub is broken
हिहि indeed
अरकाःअरक (१.३) spokes
वहन्तिवहन्ति (√वह् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) carry, function
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.