शशक आह-अस्त्येतत्
तथापि बलवान्स मया दृष्टः
तन्न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम्
उक्तं च-अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः
गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत्

अन्वयः AI आत्मनः परस्य च शक्तिम् अविदित्वा समुत्सुकः अभिमुखः गच्छन् पतङ्ग-वत् वह्नौ नाशम् याति ॥
Summary AI One who impulsively rushes forward without knowing their own strength and that of the enemy perishes like a moth flying into a fire.
सारांश AI अपनी और शत्रु की शक्ति को जाने बिना उतावलेपन में आगे बढ़ने वाला व्यक्ति अग्नि में जलने वाले पतंगे की भांति नष्ट हो जाता है।
पदच्छेदः AI
शशकःशशक (१.१) The rabbit
आहआह (√ब्रू कर्तरि लिट् (परस्मै.) प्र.पु. एक.) said
अस्तिअस्ति (√अस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
एतत्एतद् (१.१) this
तथातथा however
अपिअपि even
बलवान्बलवत् (१.१) strong
सःतद् (१.१) he
मयाअस्मद् (३.१) by me
दृष्टःदृष्ट (√दृश्+क्त, १.१) seen
तत्तद् (१.१) therefore
not
युज्यतेयुज्यते (√युज् भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is proper
स्वामिनःस्वामिन् (६.१) for the master
तस्यतद् (६.१) of him
तस्यतद् (६.१) of that
सामर्थ्यम्सामर्थ्य (२.१) ability
अविदित्वाअविदित्वा (अ√विद्+क्त्वा) without knowing
गन्तुम्गन्तुम् (√गम्+तुमुन्) to go
उक्तम्उक्त (√वच्+क्त, १.१) It is said
and
अविदित्वाअविदित्वा (अ√विद्+क्त्वा) without knowing
आत्मनःआत्मन् (६.१) of one's own
शक्तिम्शक्ति (२.१) strength
परस्यपर (६.१) of the other
and
समुत्सुकःसमुत्सुक (१.१) overly eager
गच्छन्गच्छत् (√गम्+शतृ, १.१) going
अभिमुखःअभिमुख (१.१) facing
वह्नौवह्नि (७.१) into fire
नाशम्नाश (२.१) destruction
यातियाति (√या कर्तरि लट् (परस्मै.) प्र.पु. एक.) attains
पतङ्गवत्पतङ्गवत् like a moth
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.