अयि ममैष चकोरशिशुर्मुनेः
व्रजति सिन्धुपिबस्य न शिष्यताम् ।
अशितुमब्धिमधीतवतोऽस्य च
शशिकराः पिबतः कति शीकराः ॥

अन्वयः AI अयि ! मम एषः चकोरशिशुः सिन्धुपिबस्य मुनेः शिष्यताम् न व्रजति । अब्धिम् अशितुम् अधीतवतः अस्य पिबतः च शशिकराः कति शीकराः (भवेयुः)?
Summary AI "Oh! This baby Chakora bird of mine does not become a disciple of the ocean-drinking sage, Agastya. For one who has learned to consume the ocean, how many mere drops are the moonbeams he drinks?"
पदच्छेदः AI
अयिअयि Oh
ममअस्मद् (६.१) my
एषःएतद् (१.१) this
चकोरशिशुःचकोरशिशु (१.१) baby Chakora bird
मुनेःमुनि (६.१) of the sage
व्रजतिव्रजति (√व्रज् कर्तरि लट् (परस्मै.) प्र.पु. एक.) attains
सिन्धुपिबस्यसिन्धु–पिबत् (√पा+शतृ, ६.१) of the ocean-drinker (Agastya)
not
शिष्यताम्शिष्यता (२.१) discipleship
अशितुम्अशितुम् (√अश्+तुमुन्) to eat
अब्धिम्अब्धि (२.१) the ocean
अधीतवतःअधीतवत् (अधि√इ+क्तवतु, ६.१) of one who has learned
अस्यइदम् (६.१) for this (bird)
and
शशिकराःशशिकर (१.३) the moonbeams
पिबतःपिबत् (√पा+शतृ, ६.१) drinking
कतिकति how many
शीकराःशीकर (१.३) drops
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
यि मै को शि शु र्मु नेः
व्र ति सि न्धु पि स्य शि ष्य ताम्
शि तु ब्धि धी तो ऽस्य
शि राः पि तः ति शी राः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.