धार्यः कथंकारमहं भवत्या
वियद्विहारी वसुधैकगत्या ।
अहो शिशुत्वं तव खण्डितं न
स्मरस्य सख्या वयसाप्यनेन ॥

अन्वयः AI वियत्-विहारी अहम् वसुधा-एक-गत्या भवत्या कथंकारम् धार्यः? अहो ! स्मरस्य सख्या अनेन वयसा अपि तव शिशुत्वम् न खण्डितम्।
Summary AI "How can I, a sky-dweller, possibly be caught by you, who can only move on the earth? Oh! Your childishness has not been dispelled even by this age of yours, which is a friend to the god of love."
पदच्छेदः AI
धार्यःधार्य (√धृ+ण्यत्, १.१) to be caught
कथंकारम्कथंकारम् how
अहम्अस्मद् (१.१) I
भवत्याभवत् (३.१) by you
वियत्-विहारीवियत्–विहारी a sky-dweller
वसुधा-एक-गत्यावसुधाएकगति by one whose only movement is on the earth
अहोअहो Oh!
शिशुत्वम्शिशुत्व (१.१) childishness
तवयुष्मद् (६.१) your
खण्डितम्खण्डित (√खण्ड्+क्त, १.१) dispelled
not
स्मरस्यस्मर (६.१) of the god of love
सख्यासखि (३.१) by the friend
वयसावयस् (३.१) by the age
अपिअपि even
अनेनइदम् (३.१) by this
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
धा र्यः थं का हं त्या
वि द्वि हा री सु धै त्या
हो शि शु त्वं ण्डि तं
स्म स्य ख्या सा प्य ने
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.