अस्यैव सेवार्थमुपागताना-
मास्वादयन्पल्लवमोषधीनाम् ।
धयन्नमुष्यैव सुधाजलानि
सुखं वसत्येष कलङ्करङ्कुः ॥

अन्वयः AI एषः कलङ्क-रङ्कुः अस्य एव सेवा-अर्थम् उपागतानाम् ओषधीनां पल्लवम् आस्वादयन्, अमुष्य एव सुधा-जलानि धयन्, सुखं वसति।
Summary AI This deer, which is the moon's spot, lives happily by tasting the new leaves of the herbs that come to serve this very moon, and by drinking his nectar-like waters.
पदच्छेदः AI
अस्यइदम् (६.१) of this
एवएव very
सेवार्थम्सेवार्थम् for the purpose of serving
उपागतानाम्उपागत (उप+आ√गम्+क्त, ६.३) of those who have come
आस्वादयन्आस्वादयत् (आ√स्वद्+णिच्+शतृ, १.१) tasting
पल्लवम्पल्लव (२.१) the new leaves
ओषधीनाम्ओषधी (६.३) of the herbs
धयन्धयत् (√धे+शतृ, १.१) drinking
अमुष्यअदस् (६.१) of this
एवएव very
सुधाजलानिसुधाजल (२.३) the nectar-waters
सुखंसुखम् happily
वसतिवसति (√वस् कर्तरि लट् (परस्मै.) प्र.पु. एक.) lives
एषःएतद् (१.१) this
कलङ्करङ्कुःकलङ्करङ्कु (१.१) the deer which is the spot
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
स्यै से वा र्थ मु पा ता ना
मा स्वा न्प ल्ल मो धी नाम्
न्न मु ष्यै सु धा ला नि
सु खं त्ये ङ्क ङ्कुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.