तामायुष्मान्मम च वचनादात्मना चोपकर्तुं
ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः
पूर्वाशास्यं सुलभविपदां प्राणिनामेतदेव ॥

अन्वयः AI आयुष्मान्! ताम् मम वचनात् आत्मना च उपकर्तुं ब्रूयात् - 'अबल! तव सह-चरः रामगिरि-आश्रम-स्थः वियुक्तः अव्यापन्नः त्वां कुशलं पृच्छति, सुलभ-विपदां प्राणिनाम् एतत् एव पूर्व-आशास्यम्' इति ।
Summary AI O long-lived one, for my sake and your own kindness, tell her: "O lady, your companion, staying at the hermitage of Rāmagiri, though separated, is alive and asks after your welfare. For living beings prone to misfortunes, this is the first thing to be desired."
सारांश AI उससे कहना कि तुम्हारा साथी रामगिरि आश्रम में जीवित है और तुम्हारा कुशल-क्षेम पूछता है। संकट में घिरे प्राणियों के लिए सबसे पहले यही पूछना उचित होता है।
वल्लभदेवः आयुष्मान्भवान्मदीयेन वचमा स्वयं चोपकर्तुं तामित्थं ब्रूयाद्वदेत् । यथा तव सहचरः पतिश्चित्रकूटासीनोऽव्यापन्नो जीवस्त्वां कुशलं पृच्छतीति । किमित्युभयगतकुशलकथनमेवादावित्याह । यस्मात्सुप्रापवि पत्तीनां शरीरिणामेतदेव पूर्वाशास्यं प्रथमाकाङ्क्षणीयं यत्स्वास्थ्यं नाम । आयुष्मानिति वचने कर्तृपदं न त्वामन्त्रणम् । ब्रूयादिति प्रथमपुरुषप्रयोगात् । आशास्यशब्देऽनुपसर्गाधिकारादेतिस्तुशासव्रिति क्यवभावः ॥
पदच्छेदः AI
ताम्तद् (२.१) to her
आयुष्मान्आयुष्मत् (१.१) O long-lived one
ममअस्मद् (६.१) my
and
वचनात्वचन (५.१) from the words
आत्मनाआत्मन् (३.१) by yourself
and
उपकर्तुम्उपकर्तुम् (उप√कृ+तुमुन्) to oblige
ब्रूयात्ब्रूयात् (√ब्रू कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) should say
एवम्एवम् thus
तवयुष्मद् (६.१) your
सहचरःसहचर (१.१) companion
रामगिर्याश्रमस्थःरामगिरिआश्रमस्थ (१.१) dwelling in the hermitages of Ramagiri
अव्यापन्नःअव्यापन्न (अ+वि+आ√पद्+क्त, १.१) is safe
कुशलम्कुशल (२.१) of the welfare
अबलेअबला (८.१) O gentle lady
पृच्छतिपृच्छति (√प्रछ् कर्तरि लट् (परस्मै.) प्र.पु. एक.) asks
त्वाम्युष्मद् (२.१) you
वियुक्तःवियुक्त (वि√युज्+क्त, १.१) though separated
पूर्वम्पूर्वम् first
आशास्यम्आशास्य (आ√शंस्+ण्यत्, १.१) to be hoped for
सुलभविपदांसुलभविपद् (६.३) for those prone to misfortune
प्राणिनाम्प्राणिन् (६.३) for living beings
एतत्एतद् (१.१) this
एवएव very thing
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
ता मा यु ष्मा न्म ना दा त्म ना चो र्तुं
ब्रू या दे वं रो रा गि र्या श्र स्थः
व्या न्नः कु ले पृ च्छ ति त्वां वि यु क्तः
पू र्वा शा स्यं सु वि दां प्रा णि ना मे दे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.