सा संन्यस्ताभरणमबला पेलवं धारयन्ती
शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् ।
त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥

अन्वयः AI संन्यस्त-आभरणं पेलवं गात्रं दुःख-दुःखेन शय्या-उत्सङ्गे असकृत् निहितं धारयन्ती सा अबला अवश्यं त्वाम् अपि नव-जल-मयं अस्रं मोचयिष्यति, (यतः) आर्द्र-अन्तरात्मा सर्वः प्रायः करुणा-वृत्तिः भवति ।
Summary AI Seeing her frail body, devoid of ornaments and repeatedly cast in deep sorrow upon the bed, will surely make even you shed tears in the form of fresh rain. Generally, those with a tender heart are moved by compassion.
सारांश AI आभूषण त्याग चुकी वह अबला अपने दुर्बल शरीर को बार-बार शय्या पर कष्ट से डालती होगी। उसे देखकर तुम भी निश्चित ही आँसू बहाओगे, क्योंकि दयालु हृदय वाले दूसरों के दुख से पिघल जाते हैं।
वल्लभदेवः साबला कृशाङ्गीदृशं देहं वहन्ती निश्चेतनमपि त्वां नतजलमयमस्रमवश्यं त्याजयिष्यति । कीदृशं गात्रम् । पेलवं कृशं सुकुमारम् । अत एव संन्यस्ताभरणं त्यक्तमण्डनम । तथा तल्पपृष्ठे निक्षिप्तमप्यतिक्लेशेन बिभ्रती । यद्येवंविधा सा किमित्यहं रोदिमीत्याह । यस्माद्य आर्द्रान्तरात्मा सरसचित्तः स सर्वः प्रायेण करुणावृत्तिः कृपाशीलो भवति । त्वं च सजलत्वादार्द्रान्तरः । करुणा कृपैव वृत्तिर्व्यापारो यस्य स करुणावृत्तिः । कृपार्थवृत्तेः करुणाशब्दस्य भाषितपुंस्कत्वाभावान्न पुंवद्भावः । दुःखदुःखेनेत्याधिक्ये निर्वचनम् । दुहेरिव मुचेरपि विकर्मकत्वात्त्वामस्रं मोचयिष्यतीति ॥
पदच्छेदः AI
सातद् (१.१) she
संन्यस्ताभरणम्संन्यस्तआभरण (१.१) who has cast off ornaments
अबलाअबला (१.१) the helpless woman
पेलवम्पेलव (२.१) delicate
धारयन्तीधारयन्ती (√धृ+णिच्+शतृ, १.१) bearing
शय्योत्सङ्गेशय्याउत्सङ्ग (७.१) on the bed
निहितम्निहित (नि√धा+क्त, २.१) placed
असकृत्असकृत् repeatedly
दुःखदुःखेनदुःखदुःख (३.१) with great difficulty
गात्रम्गात्र (२.१) body
त्वाम्युष्मद् (२.१) you
अपिअपि also
अस्रम्अस्र (२.१) tears
नवजलमयम्नवजलमय (२.१) made of fresh water
मोचयिष्यतिमोचयिष्यति (√मुच् +णिच् कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will cause to shed
अवश्यम्अवश्यम् surely
प्रायःप्रायस् generally
सर्वःसर्व (१.१) everyone
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) becomes
करुणावृत्तिःकरुणावृत्ति (१.१) of a compassionate nature
आर्द्रान्तरात्माआर्द्रअन्तरआत्मन् (१.१) whose inner soul is tender
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
सा सं न्य स्ता ला पे वं धा न्ती
य्यो त्स ङ्गे नि हि कृ द्दुः दुः खे गा त्रम्
त्वा प्य स्रं यं मो यि ष्य त्य श्यं
प्रा यः र्वो ति रु णा वृ त्ति रा र्द्रा न्त रा त्मा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.