जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु सुभगंमन्यभावः करोति
प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥

अन्वयः AI जाने सख्यास्तव मयि मनः संभृत-स्नेहं (इति), अस्मात् ताम् अहम् इत्थं-भूतां प्रथम-विरहे तर्कयामि । सुभगं-मन्य-भावः मां वाचालं न खलु करोति, भ्रातर! मया यत् उक्तं तत् निखिलम् अचिरात् ते प्रत्यक्षम् (भविष्यति) ।
Summary AI I know my wife's heart is filled with love for me, and thus I imagine her in this state during our first separation. O brother, it is not vanity that makes me speak thus; you will soon see everything I have described for yourself.
सारांश AI मैं जानता हूँ कि तुम्हारी सखी का मुझमें अटूट प्रेम है, इसलिए मैं उसके प्रथम विरह की ऐसी दशा का अनुमान लगा रहा हूँ। यह मेरा अहंकार नहीं है, शीघ्र ही तुम स्वयं यह सब प्रत्यक्ष देख लोगे।
वल्लभदेवः तस्या भवद्वयस्याया यतो मयि मनः संभृतस्नेहमतिप्रीतिमदतः कारणादित्थं भूतामेवंविधां दशामवाप्तां तामहमाद्यवियोगे तर्कयाम्युत्प्रेक्षे । न च स्नेह एव त्वयि तस्या नास्तीति वक्तुं युज्यत इत्याह । सुभगमिष्टमात्मानं मन्यते सुभगंमन्यः । तद्भावो मां नैव वाचालं यत्किंचनभाषिणं कुरुते । तस्माद्यत्तव मयोक्तमेतदशेषं तवाचिरात्प्रत्यक्षम् । अवश्यं त्वमेवंविधां तो द्विदिनैर्द्रक्ष्यसीत्यर्थः ॥
पदच्छेदः AI
जानेजाने (√ज्ञा कर्तरि लट् (आत्मने.) उ.पु. एक.) I know
सख्याःसखि (६.१) of your friend
तवयुष्मद् (६.१) your
मयिअस्मद् (७.१) for me
मनःमनस् (१.१) the heart
संभृतस्नेहम्संभृतस्नेह (१.१) is full of affection
अस्मात्अदस् (५.१) from this
इत्थंभूताम्इत्थम्भूत (२.१) to be in such a state
प्रथमविरहेप्रथमविरह (७.१) in the first separation
ताम्तद् (२.१) her
अहम्अस्मद् (१.१) I
तर्कयामितर्कयामि (√तर्क् कर्तरि लट् (परस्मै.) उ.पु. एक.) infer
वाचालम्वाचाल (२.१) talkative
माम्अस्मद् (२.१) me
not
खलुखलु indeed
सुभगंमन्यभावःसुभगम्मन्यभाव (१.१) the feeling of self-conceit
करोतिकरोति (√कृ कर्तरि लट् (परस्मै.) प्र.पु. एक.) makes
प्रत्यक्षम्प्रत्यक्ष (१.१) visible
तेयुष्मद् (६.१) to you
निखिलम्निखिल (१.१) all
अचिरात्अचिरात् soon
भ्रातःभ्रातृ (८.१) O brother
उक्तम्उक्त (√वच्+क्त, १.१) has been said
मयाअस्मद् (३.१) by me
यत्यद् (१.१) what
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
जा ने ख्या स्त यि नः सं भृ स्ने स्मा
दि त्थं भू तां प्र वि हे ता हं र्क या मि
वा चा लं मां लु सु गं न्य भा वः रो ति
प्र त्य क्षं ते नि खि चि रा द्भ्रा रु क्तं या यत्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.