Loading data... On slow networks this could take a few minutes.
100%

आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलं
वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु ।
काले काले भवति भवता यस्य संयोगमेत्य
स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥

अन्वयः AI पुंसां वन्द्यैः रघुपति-पदैः मेखलासु अङ्कितं अमुं तुङ्गं प्रिय-सखं शैलं आलिङ्ग्य आपृच्छस्व। यस्य भवता संयोगम् एत्य काले काले स्नेह-व्यक्तिः चिर-विरह-जं उष्णं बाष्पं मुञ्चतः (इव भवति)।
Summary AI The yakṣa asks the cloud to embrace and bid farewell to its dear friend, the lofty Rāmagiri mountain, which bears the sacred footprints of Rāma. At every reunion with the cloud, the mountain shows its affection by shedding warm tears of joy, appearing as water released after a long separation.
सारांश AI श्रीराम के चरण चिह्नों से अंकित इस ऊँचे रामगिरि पर्वत का आलिंगन कर इससे विदा लो। चिर विरह के बाद तुम्हारा संयोग प्राप्त होने पर यह पर्वत उष्ण आँसुओं के रूप में अपनी स्नेह-अभिव्यक्ति करता है।
वल्लभदेवः अमुं शैलं चित्रकूटमालिङ्ग्यापृच्छस्व सोत्कण्ठं [अस्पष्टं मुद्रणम्]ज्योककुरु । यतः प्रियसखमिष्टमित्रम् । मेघानां ह्यद्रयः सुहृदः । ततस्तेषामुदयात् । सखा च गमनकाले ज्योक्क्रियते । कीदृशममुम् । तुङ्गमुन्नतम् । तथा सर्वजनपूज्यैः रामपदै रामपादैर्मेखलासु नितम्बभागेष्वङ्कितं मुद्रितमिति पावनत्वोक्तिः । सखिधर्ममाह | यस्याद्रेः काले काले सर्वस्मिन्समागमममये त्वया सह संयोगमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं त्यजतः स्नेहव्यक्तिर्भवति । यः स्निह्यतीत्यर्थः । पर्वता हि जलदवृष्ट्या स्निग्धा भवन्ति वाष्पं च मुञ्चन्ति । एतदेव महत्त्वं यच्चिरेण सख्यौ दृष्टे बाष्पस्नेहौ जायेते । आपृच्छस्वेत्याङि नुप्रच्छ्योरित्यात्मनेपदम् । प्रियश्चासौ सखा चेति प्रियसखः । राजाहःसखिभ्यष्टच् । संयोगमेत्येति बाष्पमोक्षापेक्षं पौर्वकाख्यं स्नेहक्रियापेक्षं वा ॥
पदच्छेदः AI
आपृच्छस्वआपृच्छस्व (आ√प्रछ् कर्तरि लोट् (आत्मने.) म.पु. एक.) take leave of
प्रियसखम्प्रियसखि (२.१) dear friend
अमुम्अदस् (२.१) this
तुङ्गम्तुङ्ग (२.१) lofty
आलिङ्ग्यआलिङ्ग्य (आ√लिङ्ग्+ल्यप्) having embraced
शैलंशैल (२.१) mountain
वन्द्यैःवन्द्य (√वन्द्+यत्, ३.३) by the venerable
पुंसांपुंस् (६.३) of men
रघुपतिपदैःरघुपतिपद (३.३) footprints of Rama
अङ्कितंअङ्कित (√अङ्क्+क्त, २.१) marked
मेखलासुमेखला (७.३) on its slopes
काले कालेकाल (७.१) time and again
भवतिभवति (√भू कर्तरि लट् (परस्मै.) प्र.पु. एक.) is
भवताभवत् (३.१) by you
यस्ययद् (६.१) whose
संयोगम्संयोग (२.१) union
एत्यएत्य (आ√इ+ल्यप्) having reached
स्नेहव्यक्तिःस्नेहव्यक्ति (१.१) manifestation of affection
चिरविरहजंचिरविरह (२.१) born of long separation
मुञ्चतःमुञ्चत् (√मुच्+शतृ, ६.१) of you who are shedding
बाष्पम्बाष्प (२.१) tears (rain)
उष्णम्उष्ण (२.१) warm
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
पृ च्छ स्व प्रि मुं तु ङ्ग मा लि ङ्ग्य शै लं
न्द्यैः पुं सां घु ति दै ङ्कि तं मे ला सु
का ले का ले ति ता स्य सं यो मे त्य
स्ने व्य क्ति श्चि वि जं मु ञ्च तो बा ष्प मु ष्णम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.