Loading data... On slow networks this could take a few minutes.
100%

त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः ।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायां
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥

अन्वयः AI पवन-पदवीम् आरूढं त्वाम् उद्गृहीत-अलक-अन्ताः पथिक-वनिताः प्रत्ययात् आश्वासन्त्यः प्रेक्षिष्यन्ते। त्वयि संनद्धे (सति) कः विरह-विधुरां जायां उपेक्षेत? यः अहम् इव पराधीन-वृत्तिः (तथा-भूतः) अन्यः अपि जनः न स्यात्।
Summary AI As the cloud ascends the path of the wind, the wives of travelers will look up, lifting their hair in hope of their husbands' return. The yakṣa muses that when a cloud appears, no one would neglect his grieving wife unless, like himself, he were bound by service to another.
सारांश AI जब तुम पवन के मार्ग पर चलोगे, तो प्रवासी पथिकों की स्त्रियाँ अपने बालों को ऊपर उठाकर विश्वास के साथ तुम्हें देखेंगी। तुम्हारे आने पर कौन विरह-दुखी अपनी पत्नी की उपेक्षा करेगा? केवल मुझ जैसे पराधीन व्यक्ति ही ऐसा कर सकते हैं।
वल्लभदेवः वातमार्गं खमुद्गतं भवन्तं पान्थाङ्गना विरहिण्योऽलकानुत्क्षिप्य द्रक्ष्यन्ति । यतः प्रत्ययान्निश्चयोत्पादनादाश्वसन्त्यः । अयं जीमूत उदितः । अत्रावश्यमस्मत्प्राणेश्वरैरागन्तव्यमिति । तद्दर्शनमात्रे कस्मादाशा कृतेत्याह । त्वयि संनद्धे कृतोद्योगे सति वियोगाकुलां प्रेयसीं क उपेक्षेत विरहयेत् । यद्यन्योऽपि जनस्तादृशो न स्यात् । कीदृशः । मादृशः पराधीनवृत्तिः । अथ वा कोऽन्यो जनो जायामुपेक्षेतेत्यत्र सबन्धः । स्वाधीना हि कान्ताभिः सह रममाणाः प्रावृषमतिवाहयन्ति । संनद्धादयः शब्दाः एवमादावोपचारिकाः ॥
पदच्छेदः AI
त्वाम्युष्मद् (२.१) you
आरूढंआरूढ (आ√रुह्+क्त, २.१) ascended
पवनपदवीम्पवनपदवी (२.१) to the path of the wind
उद्गृहीतालकान्ताःउद्गृहीतअलकअन्त (१.३) who have lifted the ends of their hair-curls
प्रेक्षिष्यन्तेप्रेक्षिष्यन्ते (प्र√ईक्ष् कर्तरि लृट् (आत्मने.) प्र.पु. बहु.) will gaze
पथिकवनिताःपथिकवनिता (१.३) the wives of travelers
प्रत्ययात्प्रत्यय (५.१) from confidence
आश्वसन्त्यःआश्वसत् (आ√श्वस्+शतृ, १.३) taking heart
कःकिम् (१.१) who
संनद्धेसंनद्ध (सम्√नह्+क्त, ७.१) when you are ready (to help)
विरहविधुरांविरहविधुर (२.१) distressed by separation
त्वयियुष्मद् (७.१) you
उपेक्षेतउपेक्षेत (उप√ईक्ष् कर्तरि विधिलिङ् (आत्मने.) प्र.पु. एक.) would neglect
जायाम्जाया (२.१) his wife
not
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would be
अन्यःअन्य (१.१) another
अपिअपि even
अहम्अस्मद् (१.१) I
इवइव like
जनःजन (१.१) person
यःयद् (१.१) who
पराधीनवृत्तिःपरअधीनवृत्ति (१.१) is dependent on another for his livelihood
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्वा मा रू ढं वी मु द्गृ ही ता का न्ताः
प्रे क्षि ष्य न्ते थि नि ताः प्र त्य या दा श्व न्त्यः
कः सं द्धे वि वि धु रां त्व य्यु पे क्षे जा यां
स्या न्यो ऽप्य मि नो यः रा धी वृ त्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.