मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्तोयगृध्नुः ।
गर्भाधानस्थिरपरिचया नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥

अन्वयः AI अनुकूलः पवनः त्वाम् यथा मन्दं मन्दं नुदति, अयम् वामः चातकः च मधुरं नदति (तथा)। गर्भ-आधान-स्थिर-परिचयाः आबद्ध-मालाः बलाकाः खे नयन-सुभगं भवन्तं नूनं सेविष्यन्ते।
Summary AI A favorable breeze gently pushes the cloud, while the cātaka bird sings sweetly on its left. Being pleasing to the eye, rows of cranes, familiar with the cloud's role in their fertility, will surely attend upon it in the sky as it travels.
सारांश AI अनुकूल पवन तुम्हें धीरे-धीरे आगे बढ़ा रहा है और प्यासा चातक बाईं ओर मधुर स्वर में गा रहा है। गर्भाधान के समय का परिचय रखने वाली बगुलाओं की पंक्तियाँ आकाश में नेत्रों को सुख देने वाले तुम्हारा सेवन करेंगी।
वल्लभदेवः यथेदं शुभमीक्ष्यते तथा निश्चितं मे च मुन्दरं त्वामाकाशे बलाकाः सेविष्यन्ते श्रयिष्यन्ते । किमितीत्याह । हितो वातो यथा त्वां मन्दं मन्दं प्रेरयति यथा चायं चातको मयूरो मधुरं कूजति । वामो वामपार्श्वस्थो वल्गुवादी वा। तोयगृधुर्जलमभिलाषुकः । वार्षिकलिङ्गदर्शनाद्बलाका अप्यायास्यन्तीति प्रावृड्धर्मोऽयम् । कीदृक्ष्यस्ताः । गर्भाधानेन स्थिरः परिचयो यासां ताः । मेघगर्जितेन हि ताः सगर्भा भवन्तीति वार्त्ता । आबद्धमाला रचितपङ्क्त्यः । मन्दं मन्दमित्याधिक्ये द्वित्वम् ॥
पदच्छेदः AI
मन्दं मन्दंमन्दम् gently, gently
नुदतिनुदति (√नुद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) impels
पवनःपवन (१.१) the wind
and
अनुकूलःअनुकूल (१.१) favorable
यथायथा as
त्वाम्युष्मद् (२.१) you
वामःवाम (१.१) on the left (auspicious)
and
अयम्इदम् (१.१) this
नदतिनदति (√नद् कर्तरि लट् (परस्मै.) प्र.पु. एक.) sings
मधुरंमधुरम् sweetly
चातकःचातक (१.१) Chataka bird
तोयगृध्नुःतोयगृध्नु (१.१) eager for water
गर्भाधानस्थिरपरिचयाःगर्भआधानस्थिरपरिचय (१.३) who have a firm acquaintance from the time of their conception
नूनम्नूनम् surely
आबद्धमालाःआबद्धमाला (१.३) formed in rows
सेविष्यन्तेसेविष्यन्ते (√सेव् कर्तरि लृट् (आत्मने.) प्र.पु. बहु.) will attend upon
नयनसुभगंनयनसुभग (२.१) pleasing to the eyes
खे (७.१) in the sky
भवन्तंभवत् (२.१) you
बलाकाःबलाका (१.३) female cranes
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
न्दं न्दं नु ति श्चा नु कू लो था त्वां
वा श्चा यं ति धु रं चा स्तो गृ ध्नुः
र्भा धा स्थि रि या नू मा द्ध मा लाः
से वि ष्य न्ते सु गं खे न्तं ला काः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.