शेषान्मासान्गमनदिवसप्रस्तुतस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः ।
संयोगं वा हृदयनिहितारम्भमास्वादयन्ती
प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥

अन्वयः AI वा गमन-दिवस-प्रस्तुतस्य अवधेः शेषान् मासान् देहली-दत्त-पुष्पैः गणनया भुवि विन्यस्यन्ती वा हृदय-निहित-आरम्भं संयोगम् आस्वादयन्ती । प्रायेण रमण-विरहेषु एते अङ्गनानां विनोदाः (भवन्ति) ।
Summary AI Or she may be counting the remaining months of our separation by placing flowers on the threshold, or mentally relishing the joy of our future reunion. Such are generally the pastimes of women during their husband's absence.
सारांश AI वह दहलीज पर रखे फूलों से विरह के शेष महीनों की गणना कर रही होगी या मन ही मन मिलन का आनंद ले रही होगी। विरह में स्त्रियों के मनोरंजन के प्रायः यही साधन होते हैं।
वल्लभदेवः गमनदिवसात्प्रवृत्तो योऽवधिर्वर्षाख्यस्तस्य शेषान्मासानवनौ भुवि विन्यस्यन्ती स्थापयन्ती । कैः । देहल्यां द्वारविशेषे द्वारपूजार्थं दत्तैः पुष्पैर्या गणना तया । रेखापदेषु पुष्पाणि दत्त्वेत्यर्थः । हृदयनिहितारम्भं मनोरथरचितं मत्संगमं वास्वादयन्त्यनुभवन्ती । कथमवगच्छस्येतादृशान्व्यापारान्कुर्वतीत्याह । यम्मादिष्टवियोगे विरहिणीनां प्रायेणैवंविधा एव विनोदाः केलयो भवन्ति ॥
पदच्छेदः AI
शेषान्शेष (२.३) the remaining
मासान्मास (२.३) months
गमनदिवसप्रस्तुतस्यगमनदिवसप्रस्तुत (६.१) of the one which started from the day of departure
अवधेःअवधि (६.१) of the period
वावा or
विन्यस्यन्तीविन्यस्यन्ती (वि+नि√अस्+शतृ, १.१) placing
भुविभू (७.१) on the ground
गणनयागणना (३.१) by counting
देहलीदत्तपुष्पैःदेहलीदत्तपुष्प (३.३) with flowers placed on the threshold
संयोगम्संयोग (२.१) union
वावा or
हृदयनिहितारम्भम्हृदयनिहितआरम्भ (२.१) whose beginning is set in the heart
आस्वादयन्तीआस्वादयन्ती (आ√स्वाद्+णिच्+शतृ, १.१) savoring
प्रायेणप्रायेण generally
एतेएतद् (१.३) these
रमणविरहेषुरमणविरह (७.३) in separations from lovers
अङ्गनानाम्अङ्गना (६.३) of women
विनोदाःविनोद (१.३) are the pastimes
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
शे षा न्मा सा न्ग दि प्र स्तु स्या धे र्वा
वि न्य स्य न्ती भु वि या दे ली त्त पु ष्पैः
सं यो गं वा हृ नि हि ता म्भ मा स्वा न्ती
प्रा ये णै ते वि हे ष्व ङ्ग ना नां वि नो दाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.