Loading data... On slow networks this could take a few minutes.
100%

तां जानीयाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
गाढोत्कण्ठागुरुषु दिवसेष्वेषु गच्छत्सु बालां
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥

अन्वयः AI तां परिमित-कथां मे द्वितीयं जीवितं मयि सहचरे दूरी-भूते एकां चक्रवाकीं इव जानीयाः, गाढ-उत्कण्ठा-गुरुषु एषु दिवसुे गच्छत्सु बालां शिशिर-मथितां पद्मिनीं वा अन्य-रूपं जातां मन्ये।
Summary AI Know her to be my second life, a woman of few words, living alone like a female Cakravāka bird while I, her companion, am far away. During these days heavy with intense longing, I imagine the young girl has changed her appearance, like a lotus withered by the frost.
सारांश AI उसे मेरा दूसरा प्राण समझना, जो मेरे वियोग में चक्रवाकी की तरह एकाकी और पाले से मुरझाई कमलिनी की तरह अत्यंत व्याकुल होगी।
वल्लभदेवः तत्र वेश्मनि येवंविधाङ्गनानां भवेत्ता त्वं मम जीवितं द्वितीयं बहिश्चरं जानीथाः । मद्भार्यां बुध्येथाः । कीदृशी । या तन्वी कृशाङ्गी । श्यामैकवारप्रसूता । तरुणीत्यर्थः । शिखरदशना तीक्ष्णदन्ता । पक्वं यद्विम्बफलं तद्वदधरो यस्याः सा । मध्ये क्षामा कृशोदरी । चकितहरिणप्रेक्षणो त्रस्तकुरङ्गनयना । निम्ननाभिरतुन्दिला । श्रोणीभारान्नितम्बभारादलसगमना मन्थरयाता । स्तनाभोगेन च स्तोकं मनाङ्नम्रा नता । किं बहुना । युवतिविषये नारीमध्ये वेधसः आद्या सृष्टिरिव । आदौ ह्यनुद्वेगाद्रम्यं निर्माणं भवति । तां कीदृशीम् । परिमितकथां पेशलभाषिणीम् । मयि सहचरे पत्यौ दूरीभूते दूरस्थिते सति चक्रवाकीमिवैकां केवलाम् । यां च बालाममीषु गाढोत्कण्ठादुःसहेष्वहःसु व्रजत्सु शिशिरदग्धां कमलिनीमिव विरूपां संपन्नां मन्ये जाने । वाशब्द इवार्थे । तां जानीथाः इत्येतदपेक्षयात्र सर्वत्र द्वितीया ॥
पदच्छेदः AI
ताम्तद् (२.१) Her
जानीयाःजानीयाः (√ज्ञा कर्तरि विधिलिङ् (परस्मै.) म.पु. एक.) you should know
परिमितकथाम्परिमितकथा (२.१) as one of few words
जीवितम्जीवित (२.१) life
मेअस्मद् (६.१) my
द्वितीयम्द्वितीय (२.१) second
दूरीभूतेदूरीभूत (√दूरीभूत+क्त, ७.१) having become distant
मयिअस्मद् (७.१) I
सहचरेसहचर (७.१) the companion
चक्रवाकीम्चक्रवाकी (२.१) a Chakravaki bird
इवइव like
एकाम्एका (२.१) alone
गाढोत्कण्ठागुरुषुगाढउत्कण्ठागुरु (७.३) heavy with intense longing
दिवसेषुदिवस (७.३) days
एषुइदम् (७.३) these
गच्छत्सुगच्छत्सु (√गम्+शतृ, ७.३) as they pass
बालाम्बाला (२.१) the young woman
जाताम्जाताम् (√जन्+क्त, २.१) as having become
मन्येमन्ये (√मन् कर्तरि लट् (आत्मने.) उ.पु. एक.) I think
शिशिरमथिताम्शिशिरमथित (√मथित+क्त, २.१) afflicted by winter
पद्मिनीम्पद्मिनी (२.१) a lotus plant
वावा or/like
अन्यरूपाम्अन्यरूप (२.१) of a different form
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
तां जा नी याः रि मि थां जी वि तं मे द्वि ती यं
दू री भू ते यि रे क्र वा की मि वै काम्
गा ढो त्क ण्ठा गु रु षु दि से ष्वे षु च्छ त्सु बा लां
जा तां न्ये शि शि थि तां द्मि नीं वा न्य रू पाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.