Loading data... On slow networks this could take a few minutes.
100%

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरवकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥

अन्वयः AI अत्र कुरवक-वृतेः माधवी-मण्डपस्य प्रत्यासन्नौ चल-किसलयः रक्त-अशोकः कान्तः केसरः च (स्तः), एकः मया सह तव सख्याः वाम-पाद-अभिलाषी, अन्यः दोहद-छद्मना अस्याः वदन-मदिरां काङ्क्षति।
Summary AI Near the Mādhavī bower enclosed by Kurabaka hedges are two trees: the red Aśoka and the beautiful Keśara. One, a friend like me, longs for a kick from your friend’s left foot, while the other desires wine from her mouth under the pretext of a botanical craving.
सारांश AI वहाँ अशोक और बकुल के वृक्ष हैं। अशोक मेरी पत्नी के चरण-प्रहार की और बकुल उसके मुख की मदिरा की अभिलाषा रखता है ताकि वे पुष्पित हो सकें।
वल्लभदेवः अत्र केलिपर्वते रक्ताशोककेसरतरू पल्लवितौ स्तः । कुरबकवृक्षैर्वृतिर्वर्णिका कण्ठी यस्य तस्य माधवीलतामण्डपस्य प्रत्यासन्नौ सविधौ । ययोश्चैकोऽशोकस्तव सख्या मद्गेहिन्या वामपादाभिलाषी । चरण प्रहारानुग्रहेण तस्य विकामात् । मया सह । अहमपि सपराधस्तदीयं पादप्रहारमभिलषामीत्यर्थः । अपरो बकुलो दोहदेच्छद्मना सेकाभिलाषव्याजेनास्या मत्प्रेयस्या वदनमदिरां काङ्क्षति । तरुणीमुखासवसेकेन तस्य विकासात् । मया सह । अहमपि तदीयां वदनमदिरां काङ्क्षामीत्यर्थः । अशोकादीनां प्रशस्तत्वादुपादानम् ॥
पदच्छेदः AI
रक्ताशोकःरक्तअशोक (१.१) a red Ashoka tree
चलकिसलयःचलकिसलय (१.१) with trembling sprouts
केसरःकेसर (१.१) a Kesar tree
and
अत्रअत्र here
कान्तःकान्त (१.१) a lovely
प्रत्यासन्नौप्रत्यासन्न (१.२) are near
कुरवकवृतेःकुरवकवृति (६.१) of the one enclosed by Kuravaka shrubs
माधवीमण्डपस्यमाधवीमण्डप (६.१) of the Madhavi-bower
एकःएक (१.१) One
सख्यासखि (६.१) of your friend (my wife)
तवयुष्मद् (६.१) your
सहसह with
मयाअस्मद् (३.१) me
वामपादाभिलाषीवामपादअभिलाषिन् (१.१) desirous of a kick from the left foot
काङ्क्षतिकाङ्क्षति (√काङ्क्ष् कर्तरि लट् (परस्मै.) प्र.पु. एक.) desires
अन्यःअन्य (१.१) the other
वदनमदिराम्वदनमदिरा (२.१) the wine of the mouth
दोहदच्छद्मनादोहदछद्मन् (३.१) under the pretext of the `dohada` ritual
अस्याःइदम् (६.१) her
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
क्ता शो श्च कि यः के श्चा त्र का न्तः
प्र त्या न्नौ कु वृ ते र्मा वी ण्ड स्य
कः ख्या स्त या वा पा दा भि ला षी
का ङ्क्ष त्य न्यो दि रां दो च्छ द्म ना स्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.