यस्यास्तीरे निचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥

अन्वयः AI यस्याः तीरे पेशलैः इन्द्र-नीलैः निचित-शिखरः कनक-कदली-वेष्टन-प्रेक्षणीयः क्रीडा-शैलः (अस्ति), सखे, मद्-गेहिन्याः प्रियः इति कातरेण चेतसा उपान्त-स्फुरित-तडितं त्वां प्रेक्ष्य तम् एव स्मरामि।
Summary AI On its bank is a pleasure-hill with sapphire peaks and surrounded by golden banana trees. O friend, seeing you with lightning flickering on your edges, I sadly remember that hill, which is so dear to my wife's heart.
सारांश AI बावड़ी के पास नीलम की चोटी वाला एक क्रीड़ा-पर्वत है जो सुनहरी केलों से घिरा है। बिजली के साथ तुम्हें देखकर मुझे अपनी पत्नी का प्रिय वह पर्वत याद आ रहा है।
वल्लभदेवः यस्या वाप्यास्तीरे एवंविधः क्रीडाशैलोऽस्ति । कीदृशः । पेशलैमनोज्ञैरिन्द्रनीलैर्मणिभिर्निचितशिखरो बद्धशृङ्गः । कनकमयीनां च कदलीलतानां वेष्टनेन परिवलनेन प्रेक्षणीयो रम्यः । अतश्च मत्प्रियायाः कान्त इति निकटोन्नमितशतह्रदं भवन्तमालोक्य सादृश्यात्तमेवाद्रिं कातरेणाधीरेण मनसा स्मरामि। सादृश्यात्प्रियत्वाच्च स्मरणम् । कातरत्वं तु विरहवशात् । शेषत्वाविवक्षया तमित्यधीगर्थेति पष्ठ्यभावः ॥
पदच्छेदः AI
यस्याःयद् (६.१) Of which (step-well)
तीरेतीर (७.१) on the bank
निचितशिखरःनिचित (√निचित+क्त)शिखर (१.१) whose peak is studded
पेशलैःपेशल (३.३) with exquisite
इन्द्रनीलैःइन्द्रनील (३.३) sapphires
क्रीडाशैलःक्रीडाशैल (१.१) a pleasure-hill
कनककदलीवेष्टनप्रेक्षणीयःकनककदलीवेष्टनप्रेक्षणीय (१.१) made beautiful by a surrounding grove of golden banana trees
मद्गेहिन्याःमद्गेहिनी (६.१) of my wife
प्रियःप्रिय (१.१) is a favorite
इतिइति thus/because
सखेसखि (८.१) O friend
चेतसाचेतस् (३.१) with a heart
कातरेणकातर (३.१) sorrowful
प्रेक्ष्यप्रेक्ष्य (प्र√ईक्ष्+ल्यप्) seeing
उपान्तस्फुरिततडितम्उपान्तस्फुरिततडित् (२.१) you with lightning flashing at your sides
त्वाम्युष्मद् (२.१) you
तम्तद् (२.१) that
एवएव very
स्मरामिस्मरामि (√स्मृ कर्तरि लट् (परस्मै.) उ.पु. एक.) I remember
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
स्या स्ती रे नि चि शि रः पे लै रि न्द्र नी लैः
क्री डा शै लः ली वे ष्ट प्रे क्ष णी यः
द्गे हि न्याः प्रि ति खे चे सा का रे
प्रे क्ष्यो पा न्त स्फु रि डि तं त्वां मे स्म रा मि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.