तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं तदमरधनुश्चारुणा तोरणेन ।
यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तवकनमितो बालमन्दारवृक्षः ॥

अन्वयः AI तत्र धन-पति-गृहान् उत्तरेण अस्मदीयं अगारं, तत् अमर-धनुः-चारुणा तोरणेन दूरात् लक्ष्यं, यस्य उपान्ते मे कान्तया वर्धितः हस्त-प्राप्य-स्तबक-नमितः बाल-मन्दार-वृक्षः कृतक-तनयः (इव अस्ति) ।
Summary AI To the north of Kubera's residence is my house, recognizable from afar by its gateway as beautiful as a rainbow. Beside it stands a young Mandāra tree, bent by clusters of flowers within reach of the hand, which my wife has reared like an adopted son.
सारांश AI कुबेर के महल के उत्तर में मेरा घर है, जिसे तुम इंद्रधनुषी तोरण से पहचान लोगे। वहाँ मेरी पत्नी द्वारा पुत्रवत पाला गया छोटा मंदार वृक्ष फूलों के बोझ से झुका हुआ है।
वल्लभदेवः तत्रैवंविधायामलकायां धनपतिगृहानुत्तरेण राजराजवेश्मान्युत्तरेण तदस्माकमगारं गृहम् । अभिज्ञानान्याह । शक्रचापरम्येण तोरणेन दूरादपि दृश्यम् । यस्य चोपान्ते निकटे बालो मन्दारवृक्षोऽस्ति । कीदृशः । मदीयया प्रियया सेकादिना पोषितः । यतः कृतकतनयः पुत्रीकृतः । बालत्वाच्च करग्राह्यैर्गुच्छैर्नम्रीभूतः । उत्तरेणेत्येनबन्तः । तद्योगे च गृहानित्येनपा द्वितीया । पञ्चम्यन्तः पाठस्त्वनार्यः ॥
पदच्छेदः AI
तत्रतत्र There
आगारम्आगार (१.१) house
धनपतिगृहान्धनपतिगृह (२.३) the house of Kubera
उत्तरेणउत्तरेण to the north of
अस्मदीयम्अस्मदीय (१.१) my
दूरात्दूर (५.१) from a distance
लक्ष्यम्लक्ष्यम् (√लक्ष्+ण्यत्, १.१) is identifiable
तत्तद् (१.१) that
अमरधनुश्चारुणाअमरधनुस्चारु (३.१) by the one beautiful as a rainbow
तोरणेनतोरण (३.१) by the archway
यस्ययद् (६.१) Whose
उपान्तेउपान्त (७.१) near
कृतकतनयःकृतकतनय (१.१) as an adopted son
कान्तयाकान्ता (३.१) by my beloved
वर्धितःवर्धितः (causative√वृध्+क्त, १.१) was raised
मेअस्मद् (६.१) my
हस्तप्राप्यस्तवकनमितःहस्तप्राप्यस्तवकनमित (√नमित+क्त, १.१) bent down with clusters of flowers within arm's reach
बालमन्दारवृक्षःबाल–मन्दारवृक्ष (१.१) a young Mandara tree
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्रा गा रं ति गृ हा नु त्त रे णा स्म दी यं
दू रा ल्ल क्ष्यं नु श्चा रु णा तो णे
स्यो पा न्ते कृ यः का न्त या र्धि तो मे
स्त प्रा प्य स्त मि तो बा न्दा वृ क्षः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.