Loading data... On slow networks this could take a few minutes.
100%

मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।
सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै-
स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥

अन्वयः AI यत्र धन-पति-सखं देवं साक्षात् वसन्तं च मत्वा मन्मतः भयात् षट्पद-ज्यं चापं प्रायः न वहति, तस्य आरम्भः स-भ्रू-भङ्ग-प्रहित-नयनैः कामि-लक्ष्येषु अमोघैः चतुर-वनिता-विभ्रमैः एव सिद्धः।
Summary AI Because Lord Śiva, the friend of Kubera, and Spring reside there in person, Manmatha usually does not carry his bee-stringed bow out of fear. His purpose is achieved solely by the amorous gestures of clever women, whose glances from flickering eyebrows are unfailing targets for lovers.
सारांश AI शिव के भय से कामदेव वहाँ अपना धनुष नहीं उठाते। वहाँ की सुंदरियों के कटाक्ष और भौहों के इशारे ही प्रेमियों को वश में करने के लिए पर्याप्त सिद्ध होते हैं।
वल्लभदेवः यत्र पुर्यां साक्षादासीनं हरमवेत्य स्मरः षट्पदज्यं षटपदमौर्वीकं धनुः प्रायेण भयान्नादत्ते । स्वव्यापारान्न कुरुत इत्यर्थः । कथं तर्हि मिथुनेष्वन्योन्यं प्रेमेत्याह । तस्य कामचापस्यारम्भो व्यापारः प्रवीणाङ्गनाविलासैरेव संपद्यते । कीदृशः । कामिलक्ष्येषु सभ्रूभङ्गानि प्रहितानि क्षिप्तानि नयनानि येषु । तथामोघैरवन्ध्यैः कार्यकारिभिः । तदेतेन युवतिप्रावीण्यमुक्तम् ॥
पदच्छेदः AI
मत्वामत्वा (√मन्+क्त्वा) having considered
देवम्देव (२.१) the god (Kubera)
धनपतिसखम्धनपतिसखि (२.१) the friend of the lord of wealth (Shiva)
यत्रयत्र where
साक्षात्साक्षात् in person
वसन्तम्वसन्तम् (√वस्+शतृ, २.१) residing
प्रायःप्रायस् mostly/generally
चापम्चाप (२.१) bow
not
वहतिवहति (√वह् कर्तरि लट् (परस्मै.) प्र.पु. एक.) wields
भयात्भय (५.१) out of fear
मन्मथःमन्मथ (१.१) the God of Love
षट्पदज्यम्षट्पदज्या (२.१) which has a string of bees
सभ्रूभङ्गप्रहितनयनैःभ्रूभङ्गप्रहित (√प्रहित+क्त)नयन (३.३) by glances sent with knitted brows
कामिलक्ष्येषुकामिन्लक्ष्य (७.३) on the targets of lovers
अमोघैःअमोघ (३.३) which are infallible
तस्यतद् (६.१) His
आरम्भःआरम्भ (१.१) undertaking
चतुरवनिताविभ्रमैःचतुरवनिताविभ्रम (३.३) by the charming gestures of clever women
एवएव indeed
सिद्धःसिद्धः (√सिध्+क्त, १.१) is accomplished
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्वा दे वं ति खं त्र सा क्षा द्व न्तं
प्रा श्चा पं ति या न्म न्म थः ट्प ज्यम्
भ्रू ङ्ग प्र हि नैः का मि क्ष्ये ष्व मो घै
स्त स्या म्भ श्च तु नि ता वि भ्र मै रे सि द्धः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.