Loading data... On slow networks this could take a few minutes.
100%

तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुगूलां
न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् ।
या वः काले वहति सलिलोद्गारमुच्चैर्विमाना
मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥

अन्वयः AI काम-चारिन्, प्रणयिनः तस्य उत्सङ्गे स्रस्त-गङ्गा-दुकूलां अलकां दृष्ट्वा त्वं न न ज्ञास्यसे, या वः काले उच्चैः-विमाना मुक्ता-जाल-ग्रथितं अलकं कामिनी इव सलिल-उद्गारं अभ्र-वृन्दं वहति।
Summary AI O wanderer at will, you will certainly recognize the city of Alakā resting on the mountain's lap like a lover. With the Gaṅgā falling like a displaced silk robe, she carries a mass of clouds in the rainy season like a woman with hair interwoven with nets of pearls.
सारांश AI पर्वत की गोद में बैठी अलका नगरी को तुम पहचान लोगे, जिसके गंगा रूपी वस्त्र खिसक गए हैं। ऊँचे भवनों और जल बरसाते बादलों से युक्त वह नगरी कामिनी के समान प्रतीत होती है।
वल्लभदेवः तत्र कैलासे दृष्ट्वास्मत्पुरीमलकां न न ज्ञास्यसे । अपि तु निःसंदेहं वेत्स्यस्येव यथा नूनमियं सालकेति । यतस्तस्याद्रेरुत्सङ्गेऽङ्के स्रस्त भ्रष्टं गङ्गैव दुगूलमम्बरं यस्यास्ताम् । जाह्नवी हि तत्र वहति । या चालका वः काले युष्माकं समये वर्षाख्येऽभ्रवृन्दं वहति । कीदृशम् । सलिलमुद्गिरति स्रवतीति सलिलोद्गारम् । कर्मण्यण् । का यथा कीदृशं किं वहतीत्याह । मुक्ताजालालंकृतमलकं यया कामिनी बिभर्ति । सापि प्रियस्योत्सङ्गे स्रस्तदुगूला भवति । सलिलस्य मुक्ताजालमुपमानम् । अभ्राणां लम्लाटकेशाः । उचैर्विमाना प्रांशुगृहा । कामचारिन्निति मेघस्य जडत्वं निराकृतम् ॥
पदच्छेदः AI
तस्यतद् (६.१) Its
उत्सङ्गेउत्सङ्ग (७.१) on the lap
प्रणयिनःप्रणयिन् (६.१) of a lover
इवइव like
स्रस्तगङ्गादुगूलाम्स्रस्त (√स्रस्त+क्त)गङ्गादुकूल (२.१) one whose silk garment, the Ganga, has slipped down
not
त्वम्युष्मद् (१.१) you
दृष्ट्वादृष्ट्वा (√दृश्+क्त्वा) having seen
not
पुनःपुनर् again
अलकाम्अलका (२.१) Alaka
ज्ञास्यसेज्ञास्यसे (√ज्ञा कर्तरि लृट् (आत्मने.) म.पु. एक.) you will recognize
कामचारिन्कामचारिन् (८.१) O one who roams at will
यायद् (१.१) which
वःयुष्मद् (६.३) of you (clouds)
कालेकाल (७.१) in the season
वहतिवहति (√वह् कर्तरि लट् (परस्मै.) प्र.पु. एक.) carries
सलिलोद्गारम्सलिलउद्गार (२.१) water-releasing
उच्चैर्विमानाउच्चैस्विमान (१.१) one with lofty mansions
मुक्ताजालग्रथितम्मुक्ताजालग्रथित (√ग्रथित+क्त, २.१) woven with nets of pearls
अलकम्अलक (२.१) hair-lock
कामिनीकामिनी (१.१) a loving woman
इवइव like
अम्रवृन्दम्अभ्रवृन्द (२.१) a host of clouds
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
स्यो त्स ङ्गे प्र यि स्र स्त ङ्गा दु गू लां
त्वं दृ ष्ट्वा पु कां ज्ञा स्य से का चा रिन्
या वः का ले ति लि लो द्गा मु च्चै र्वि मा ना
मु क्ता जा ग्र थि कं का मि नी वा भ्र वृ न्दम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.