Loading data... On slow networks this could take a few minutes.
100%

तत्रावश्यं जनितसलिलोद्गारमन्तःप्रवेशा-
न्नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् ।
ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या-
त्क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाययेस्ताः ॥

अन्वयः AI तत्र अन्तः-प्रवेशात् सुर-युवतयः जनित-सलिल-उद्गारं त्वां अवश्यं यन्त्र-धारा-गृहत्वं नेष्यन्ति। सखे, घर्म-लब्धस्य तव ताभ्यः यदि मोक्षः न स्यात्, क्रीडा-लोलाः ताः श्रवण-परुषैः गर्जितैः भाययेः।
Summary AI Divine damsels will surely use you as a fountain house once you enter the peaks. O friend, if you cannot escape them despite being tired from the summer heat, frighten them with thunder that is harsh to the ears, as they are distracted by their play.
सारांश AI हे सखे! कैलास पर देवस्त्रियाँ तुम्हें जल की फुहार छोड़ने वाला यंत्र बनाकर क्रीड़ा करेंगी। यदि वे तुम्हें न छोड़ें, तो तुम अपनी कड़कती गर्जना से उन्हें डराकर वहाँ से मुक्त होना।
वल्लभदेवः तत्राद्रौ जनितललिलोद्गारं वर्षन्तं त्वामभ्यन्तरप्रवेशान्निश्चितं त्रिदशवनिता नाकयुवत्यो यन्त्रधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति । यदि किलानिलवशाद्वेश्ममध्ये निक्षिप्तो विरलं वर्षसि तदा त्वमेव यन्त्रधारामयं गृहं संपद्यसे । ग्रीष्मे हि संतापनिवारणायाढ्या धारागृहान्कुर्वते । एवं सति धर्मे लब्धस्य तव ताभ्यः सकाशात्केलिलम्पटाभ्यो यदि त्यागो मोक्षो न स्यात्तत्कर्णकटुकैर्गर्जितैस्ता भाययेस्त्रासयेः । यथोद्विज्य त्वां मुञ्चेयुरिति भावः । उद्गारः प्रसरः ॥
पदच्छेदः AI
तत्रतत्र There
अवश्यम्अवश्यम् surely
जनितसलिलोद्गारम्जनित (√जनित+क्त)सलिलउद्गार (२.१) one from whom a gush of water is produced
अन्तःप्रवेशात्अन्तःप्रवेश (५.१) from entering within
नेष्यन्तिनेष्यन्ति (√नी कर्तरि लृट् (परस्मै.) प्र.पु. बहु.) will lead
त्वाम्युष्मद् (२.१) you
सुरयुवतयःसुरयुवति (१.३) celestial maidens
यन्त्रधारागृहत्वम्यन्त्रधारागृहत्व (२.१) the state of being a fountain-house
ताभ्यःतद् (५.३) from them
मोक्षःमोक्ष (१.१) release
तवयुष्मद् (६.१) your
यदियदि if
सखेसखि (८.१) O friend
घर्मलब्धस्यघर्मलब्ध (√लब्ध+क्त, ६.१) of one who has found (relief from) the heat
not
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) be
क्रीडालोलाःक्रीडालोला (२.३) playful ones
श्रवणपरुषैःश्रवणपरुष (३.३) with harsh to the ear
गर्जितैःगर्जित (√गर्जित+क्त, ३.३) thunders
भाययेःभाययेः (causative√भी कर्तरि विधिलिङ् (परस्मै.) म.पु. एक.) you should frighten
ताःतद् (२.३) them
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्रा श्यं नि लि लो द्गा न्तः प्र वे शा
न्ने ष्य न्ति त्वां सु यु यो न्त्र धा रा गृ त्वम्
ता भ्यो मो क्ष स्त दि खे र्म ब्ध स्य स्या
त्क्री डा लो लाः श्र रु षै र्ग र्जि तै र्भा ये स्ताः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.