गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसंधेः
कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः ।
शृङ्गोच्छ्रायैः कुमुदविशदैर्यो वितत्य स्थितः खं
राशीभूतः प्रतिनिशमिव त्र्यम्बकस्याट्टहासः ॥

अन्वयः AI दश-मुख-भुज-उच्छ्वासित-प्रस्थ-सन्धेः त्रिदश-वनिता-दर्पणस्य कैलासस्य अतिथिः स्याः, यः कुमुद-विशदैः शृङ्ग-उच्छ्रायैः खं वितत्य प्रति-निशं राशी-भूतः त्र्यम्बकस्य अट्टहासः इव स्थितः।
Summary AI Then, become a guest of Mount Kailāsa, whose joints were loosened by the arms of Rāvaṇa and which serves as a mirror for celestial women. With its peaks as white as lilies reaching into the sky, it stands like the accumulated nightly laughter of the three-eyed Lord Śiva.
सारांश AI आगे बढ़कर तुम कैलाश पर्वत के अतिथि बनना, जो देवांगनाओं के लिए दर्पण के समान है। कुमुद जैसा धवल वह पर्वत ऐसा लगता है मानो शिव का अट्टहास ही पुंजीभूत होकर आकाश में छा गया हो।
वल्लभदेवः ऊर्ध्वमनन्तरं गत्वा कैलासाद्रेरतिथिः स्याः । तं गछेरित्यर्थः । कीदृशस्य । दशमुखभुजोच्छ्वासितप्रस्थसंधेः पौलस्त्यबाहुदलितसानुबन्धस्य । स हि तेन दर्पादुन्मूलयितुमिष्टोऽभूत् । तथा सुरललनानां दर्पणस्यादर्शनिभस्य । स्फाटिकत्वेन मुखावलोकनात् । यश्च कैरवधवलैरुन्नतैः शिखरैर्नभो व्याप्य स्थितः । अतश्चोत्प्रेक्षते । अनुक्षपं पुञ्जीभूतः शिवस्याट्टहास उद्यतस्मितमिव ॥
पदच्छेदः AI
गत्वागत्वा (√गम्+क्त्वा) having gone
and
ऊर्ध्वम्ऊर्ध्वम् upwards
दशमुखभुजोच्छ्वासितप्रस्थसंधेःदशमुखभुजउच्छ्वासितप्रस्थसंधि (६.१) whose slope-joints were loosened by the arms of the ten-faced one (Ravana)
कैलासस्यकैलास (६.१) of Kailasa
त्रिदशवनितादर्पणस्यत्रिदशवनितादर्पण (६.१) which is a mirror for the celestial ladies
अतिथिःअतिथि (१.१) a guest
स्याःस्याः (√अस् कर्तरि विधिलिङ् (परस्मै.) म.पु. एक.) you should be
शृङ्गोच्छ्रायैःशृङ्गउच्छ्राय (३.३) with its lofty peaks
कुमुदविशदैःकुमुदविशद (३.३) white as water-lilies
यःयद् (१.१) which
वितत्यवितत्य (वि√तन्+ल्यप्) having spread across
स्थितःस्थित (√स्था+क्त, १.१) stands
खम् (२.१) the sky
राशीभूतःराशिभूत (१.१) piled up
प्रतिनिशम्प्रतिनिशम् every night
इवइव like
त्र्यम्बकस्यत्र्यम्बक (६.१) of the three-eyed one (Shiva)
अट्टहासःअट्टहास (१.१) loud laughter
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्वा चो र्ध्वं मु भु जो च्छ्वा सि प्र स्थ सं धेः
कै ला स्य त्रि नि ता र्प स्या ति थिः स्याः
शृ ङ्गो च्छ्रा यैः कु मु वि दै र्यो वि त्य स्थि तः खं
रा शी भू तः प्र ति नि मि त्र्य म्ब स्या ट्ट हा सः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.