ये त्वां मुक्तध्वनिमसहनाः कायभङ्गाय तस्मि-
न्दर्पोत्सेकादुपरि शरभा लङ्घयिष्यन्त्यलङ्घ्यम् ।
तान्कुर्वीथास्तुमुलकरकावृष्टिहासावकीर्णा-
न्के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥

अन्वयः AI तस्मिन् ये असहनाः शरभाः मुक्त-ध्वनिं अलङ्घ्यं त्वां दर्प-उत्सेकात् उपरि काय-भङ्गाय लङ्घयिष्यन्ति, तान् तुमुल-करका-वृष्टि-हास-अवकीर्णान् कुर्वीथाः; निष्फल-आरम्भ-यत्नाः के वा परिभव-पदं न स्युः?
Summary AI There, the intolerant Śarabhas might try to leap over you because of your thundering, only to break their own limbs in pride. You should scatter them with a fierce laugh of hailstones; for who does not become an object of ridicule when their efforts are directed towards impossible goals?
सारांश AI यदि अहंकारी शरभ मृग तुम्हारे गर्जन से चिढ़कर तुम्हें लांघने के लिए उछलें, तो तुम ओलों की वर्षा करके उन्हें छिन्न-भिन्न कर देना। व्यर्थ प्रयास करने वाले अंत में केवल अपमान ही प्राप्त करते हैं।
वल्लभदेवः त्वां च गर्जन्तं तत्राद्रौ ये शरभाख्याः सत्त्वा दर्पोत्सेकान्मदोद्रेकादसहमानाः सन्तोऽलङ्घ्यमपि लङ्यिष्यन्ति जिघृक्षन्ति तांस्त्वं तुमुलकरकावृष्टिहासावकीर्णान्विषमोपलवर्षस्मिताच्छादितान्कुर्वीथाः । बाधेथा इत्यर्थः । न तच्चित्रं यत्ते नश्यन्ति । यतो निष्फल आरम्भे यत्नो येषां ते तथाविधाः के परिभवस्य स्थानं पात्रं न भवेयुः । अवश्यं ते परिभूयन्त इत्यर्थः । त्वदाक्रमणेच्छा शरभाणां निष्फला । तव ग्रहोतुमशक्यत्वात् ॥
पदच्छेदः AI
येयद् (१.३) who (the Sharabhas)
त्वाम्युष्मद् (२.१) you
मुक्तध्वनिम्मुक्तध्वनि (२.१) your thundering sound
असहनाःसहन (१.३) unable to bear
कायभङ्गायकायभङ्ग (४.१) to break your body
तस्मिन्तद् (७.१) on that (mountain)
दर्पोत्सेकात्दर्पउत्सेक (५.१) out of excessive pride
उपरिउपरि upon
शरभाःशरभ (१.३) Sharabhas
लङ्घयिष्यन्तिलङ्घयिष्यन्ति (√लङ्घ् कर्तरि लृट् (परस्मै.) प्र.पु. बहु.) will leap
अलङ्घ्यम्लङ्घ्य (२.१) the unassailable one
तान्तद् (२.३) them
कुर्वीथाःकुर्वीथाः (√कृ कर्तरि विधिलिङ् (आत्मने.) म.पु. एक.) you should make
तुमुलकरकावृष्टिहासावकीर्णान्तुमुल–करकावृष्टिहासअवकीर्ण (२.३) scattered by the laughter of a heavy hailstorm
केकिम् (१.३) who
वावा indeed
not
स्युःस्युः (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. बहु.) would be
परिभवपदम्परिभवपद (२.१) an object of contempt
निष्फलारम्भयत्नाःनिष्फलआरम्भयत्न (१.३) those whose efforts and beginnings are fruitless
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
ये त्वां मु क्त ध्व नि नाः का ङ्गा स्मि
न्द र्पो त्से का दु रि भा ङ्घ यि ष्य न्त्य ङ्घ्यम्
ता न्कु र्वी था स्तु मु का वृ ष्टि हा सा की र्णा
न्के वा स्युः रि दं नि ष्फ ला म्भ त्नाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.