Loading data... On slow networks this could take a few minutes.
100%

आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां
तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः ।
वक्ष्यस्यध्वश्रमविनयने तस्य शृङ्गे निषण्णः
शोभां रम्यां त्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥

अन्वयः AI नाभि-गन्धैः मृगाणाम् सुरभित-शिलं तस्याः एव प्रभवं तुषारैः गौरं अचलम् प्राप्य तस्य शृङ्गे निषण्णः अध्व-श्रम-विनयने आसीनानां त्रिनयन-वृष-उत्खात-पङ्क-उपमेयाम् रम्याम् शोभां वक्ष्यसि।
Summary AI Reaching the snow-white mountain where the Gaṅgā originates, whose rocks are perfumed by the musk of resting deer, you will sit upon its peak to rest. There, your dark form will bear a beautiful resemblance to the mud tossed up by the bull of the three-eyed Lord Śiva.
सारांश AI कस्तूरी मृगों की गंध से सुवासित हिमालय की श्वेत चोटियों पर विश्राम कर तुम ऐसी शोभा पाओगे जैसे शिव के सफेद बैल के द्वारा उखाड़े गए कीचड़ के समान कोई श्याम चिन्ह हो।
वल्लभदेवः तस्या एव खनद्याः प्रभवं जनकमचलमद्रिं हिमवन्तमासाद्य तदीयशिखरे स्थितस्त्वं हरवृषशिरीषदारितकर्दमसदृशीं मनोहरां शोभां वक्ष्यसि धारयिष्यसि । तस्य वृषभसितत्वात्तव च पङ्ककालत्वात् । कीदृशमचलम् । मृगाणां कस्तूरिकाकुरङ्गाणामुपविष्टानां नाभिगन्धैः सुगन्धीकृतशिलम् । तुषारैर्हिमैर्गौरं शुभ्रम् । तुहिनशीतलत्वाच्च शृङ्गस्य मार्गस्वेदनिवर्तकत्वम् । प्रभवत्यस्मादिति प्रभवः ॥
पदच्छेदः AI
आसीनानाम्आसीन (√आस्+शानच्, ६.३) of those sitting
सुरभितशिलम्सुरभितशिला (२.१) whose rocks are fragrant
नाभिगन्धैःनाभिगन्ध (३.३) with the scents from the navels
मृगाणाम्मृग (६.३) of the musk-deer
तस्याःतद् (६.१) her (Ganga's)
एवएव very
प्रभवम्प्रभव (२.१) source
अचलम्अचल (२.१) mountain
प्राप्यप्राप्य (प्र√आप्+ल्यप्) having reached
गौरम्गौर (२.१) white
तुषारैःतुषार (३.३) with snow
वक्ष्यसिवक्ष्यसि (√वह् कर्तरि लृट् (परस्मै.) म.पु. एक.) you will possess
अध्वश्रमविनयनेअध्वन्श्रमविनयन (७.१) for removing the fatigue of the journey
तस्यतद् (६.१) its
शृङ्गेशृङ्ग (७.१) on the peak
निषण्णःनिषण्ण (नि√सद्+क्त, १.१) seated
शोभाम्शोभा (२.१) beauty
रम्याम्रम्य (२.१) charming
त्रिनयनवृषोत्खातपङ्कोपमेयाम्त्रिनयनवृषउत्खातपङ्कउपमेय (२.१) comparable to the dark mud dug up by the bull of the three-eyed one (Shiva)
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
सी ना नां सु भि शि लं ना भि न्धै र्मृ गा णां
स्या प्र लं प्रा प्य गौ रं तु षा रैः
क्ष्य स्य ध्व श्र वि ने स्य शृ ङ्गे नि ण्णः
शो भां म्यां त्रि वृ षो त्खा ङ्को मे याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.