Loading data... On slow networks this could take a few minutes.
100%

हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां
बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे ।
कृत्वा तासामभिगममपां सोम्य सारस्वतीना-
मन्तःस्वच्छस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥

अन्वयः AI लाङ्गली रेवती-लोचन-अङ्कां हित्वा अभिमत-रसाम् हालां बन्धु-प्रीत्या समर-विमुखः याः सिषेवे, तासाम् सारस्वतीनाम् अपाम् अभिगमं कृत्वा सोम्य त्वम् अपि अन्तः-स्वच्छः वर्ण-मात्रेण कृष्णः भविता।
Summary AI O gentle one, by sipping the waters of the river Sarasvatī which Balarāma frequented—having avoided the Great War out of love for his kinsmen and renounced his favorite wine—you too will become pure within, remaining dark only in outward color.
सारांश AI बलराम ने रेवती के नेत्रों के प्रतिबिंब वाली मदिरा को त्यागकर जिस सरस्वती नदी के जल का सेवन किया था, उसका तुम भी सेवन करना। इससे तुम अंतःकरण से पवित्र हो जाओगे, केवल बाहर से ही श्याम रहोगे।
वल्लभदेवः हे सोम्य दर्शनीयं तासां सरस्वतीसम्बन्धिनीनामपामभिगमं सेवनं विधाय निश्चेतनस्त्वमप्यन्तःस्वच्छोऽभ्यन्तरनिर्मलो भविता भविष्यसि । केवलं वर्णमात्रेण कृष्णः काल इति महा[अस्पष्टं मुद्रणम्]पुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवैष यन्मेघानां पानीयपानाद्बहिःकृष्णत्वमिति । तामामित्युक्तम् । कामामित्याह । या अपो लाङ्गलो हलधरो हालां मुरां हित्वोपेक्ष्य सिषेवे भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वेसुख्यरक्षया । स हि तैर्योद्धुमर्थितः । द्वयेऽपि मे बान्धवाः । तत्कुत्र व्रजामीति विचार्य वेश्म त्याक्त्वा सारस्वततीर्थयात्रामकरोत् । हालात्यागेन नियमग्रहणं तीर्थसेवने प्रतिपादयति । कीदृशीं हालाम् । अभिमतरसामिष्टास्वादाम् । स हि सुराप्रियः । रेवती तद्भार्या । तस्या लोचने एवाङ्कश्चिह्नं प्रतिविम्बवशाद्यस्याः । भवितेति तृजन्तः । स हि कालसामान्ये । सोम व सोम्यः । शाखादिभ्यो यत् ॥
पदच्छेदः AI
हित्वाहित्वा (√हा+क्त्वा) having abandoned
हालाम्हाला (२.१) wine
अभिमतरसाम्अभिमतरस (२.१) whose taste is preferred
रेवतीलोचनाङ्काम्रेवतीलोचन–अङ्का (२.१) marked by the eyes of Revati
बन्धुप्रीत्याबन्धुप्रीति (३.१) out of affection for his kinsmen
समरविमुखःसमरविमुख (१.१) averse to battle
लाङ्गलीलाङ्गलिन् (१.१) the plough-wielder (Balarama)
याःयद् (२.३) which (waters)
सिषेवेसिषेवे (√सेव् कर्तरि लिट् (आत्मने.) प्र.पु. एक.) drank
कृत्वाकृत्वा (√कृ+क्त्वा) having made
तासाम्तद् (६.३) of them
अभिगमम्अभिगम (२.१) approach
अपाम्अप् (६.३) of the waters
सोम्यसोम्य (८.१) O gentle one
सारस्वतीनाम्सारस्वती (६.३) of the Sarasvati river
अन्तःस्वच्छःअन्तर्स्वच्छ (१.१) pure within
त्वम्युष्मद् (१.१) you
अपिअपि also
भविताभवितृ (√भू+तृच्, १.१) will become
वर्णमात्रेणवर्णमात्र (३.१) by color only
कृष्णःकृष्ण (१.१) dark
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
हि त्वा हा ला भि सां रे ती लो ना ङ्कां
न्धु प्री त्या वि मु खो ला ङ्ग ली याः सि षे वे
कृ त्वा ता सा भि पां सो म्य सा स्व ती ना
न्तः स्व च्छ स्त्व पि वि ता र्ण मा त्रे कृ ष्णः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.