त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः
स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः ।
नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते
शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥

अन्वयः AI त्वत्-निष्यन्द-उच्छ्वसित-वसुधा-गन्ध-संपर्क-पुण्यः स्रोतस्-रन्ध्र-ध्वनित-सुभगं दन्तिभिः पीयमानः कानन-उदुम्बराणाम् परिणमयिता शीतो वायुः देव-पूर्वम् गिरिं उपजिगमिषोः ते नीचैः वास्यति।
Summary AI A cool breeze, purified by contact with the scent of the earth refreshed by your showers and inhaled deeply by elephants through their trunk-holes, will blow gently. This breeze, which ripens the wild figs, will attend you as you approach the mountain named Devagiri.
सारांश AI वर्षा की बूंदों से सुगंधित मिट्टी की गंध वाला और हाथियों द्वारा नासिका छिद्रों से सुखपूर्वक पिया जाने वाला शीतल वायु, जो जंगली गूलर के फलों को पकाने वाला है, देवगिरि पर्वत की ओर बढ़ते हुए तुम्हारा स्वागत करेगा।
वल्लभदेवः ततो देवगिरिमुपजिगमिषोर्यियासोस्तव सतुषारः पवनो नीचैर्वास्यति मन्थरं गमिष्यति । कीदृशः । तव निष्यन्देन तोयमोक्षणोच्छ्वसिता विकसिता हृषिता यासौ वसुधा भूमिस्तस्या गन्धसंपर्केण सौरभव्यतिकरेण पुण्यो मनोज्ञः । तथा सौख्याद्दन्तिभिः पीयमानः । कथम् । स्रोतोरन्ध्रं करविवरं तस्य ध्वनितं शूत्कारस्तेन सुभगं रम्यम् । सशूस्कृतमित्यर्थः । मुषिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोतः करः करिणः । यथा । प्रासप्रोतसोतसान्तःक्षतेनेति माघस्य । तथा कानमे वन उदुम्बरफलानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पत्तेः ॥
पदच्छेदः AI
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यःत्वत्–निष्यन्दउच्छ्वसितवसुधागन्ध–संपर्कपुण्य (१.१) made holy by contact with the fragrance of the earth revived by your showers
स्रोतोरन्ध्रध्वनितसुभगम्स्रोतस्रन्ध्रध्वनितसुभग (२.१) pleasantly with the sound from the nostrils
दन्तिभिःदन्तिन् (३.३) by elephants
पीयमानःपीयमान (√पा+शानच्, १.१) being drunk
नीचैःनीचैस् gently
वास्यतिवास्यति (√वा कर्तरि लृट् (परस्मै.) प्र.पु. एक.) will blow
उपजिगमिषोःउपजिगमिषु (उप√गम्+सन्+उ, ६.१) of you who wish to approach
देवपूर्वम्देवपूर्व (२.१) the mountain named Devagiri
गिरिम्गिरि (२.१) the mountain
तेयुष्मद् (६.१) your
शीतःशीत (१.१) cool
वायुःवायु (१.१) wind
परिणमयितापरिणमयितृ (परि√नम्+णिच्+तृच्, १.१) the one who ripens
काननोदुम्बराणाम्काननउदुम्बर (६.३) of the wild fig trees
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
त्व न्नि ष्य न्दो च्छ्व सि सु धा न्ध सं र्क पु ण्यः
स्रो तो न्ध्र ध्व नि सु गं न्ति भिः पी मा नः
नी चै र्वा स्य त्यु जि मि षो र्दे पू र्वं गि रिं ते
शी तो वा युः रि यि ता का नो दु म्ब रा णाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.