Loading data... On slow networks this could take a few minutes.
100%

तस्याः किं चित्करधृतमिव प्राप्तवानीरशाखं
हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् ।
प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि
ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥

अन्वयः AI सखे, तस्याः किंचित् कर-धृतम् इव प्राप्त-वानीर-शाखं नीलं सलिल-वसनं मुक्त-रोधस्-नितम्बं हृत्वा लम्बमानस्य ते प्रस्थानं कथमपि भावि; ज्ञात-आस्वादः कः पुलिन-जघनां विहातुं समर्थः?
Summary AI O friend, you will find it hard to depart as you linger over the river Gambhīrā, having displaced her blue watery garment which clings to the cane branches like a hand and reveals her banks like hips. Indeed, who that has once tasted such pleasure can easily abandon a woman with beautiful firm hips?
सारांश AI हे मित्र! निर्विन्ध्या नदी के झुकती हुई बेंत की शाखाओं वाले किनारे उसके हाथों के समान हैं। जब तुम उसका जल रूपी वस्त्र हटाकर किनारे रूपी नितम्बों को प्रकट करोगे, तब वहाँ से तुम्हारा आगे बढ़ना कठिन होगा; क्योंकि रसिक पुरुष उस स्त्री को कैसे छोड़ सकता है जिसके सुख का उसने अनुभव कर लिया हो?
वल्लभदेवः तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥
पदच्छेदः AI
तस्याःतद् (६.१) of her
किंचित्किंचित् a little
करधृतम्करधृत (२.१) held by the hand
इवइव as if
प्राप्तवानीरशाखम्प्राप्तवानीरशाख (२.१) which has grasped the branches of the Vani-reeds
हृत्वाहृत्वा (√हृ+क्त्वा) having taken away
नीलम्नील (२.१) blue
सलिलवसनम्सलिलवसन (२.१) water-garment
मुक्तरोधोनितम्बम्मुक्तरोधस्नितम्ब (२.१) from which the bank-hips are freed
प्रस्थानम्प्रस्थान (१.१) departure
तेयुष्मद् (६.१) your
कथम्कथम् how
अपिअपि somehow
सखेसखि (८.१) O friend
लम्बमानस्यलम्बमान (√लम्ब्+शानच्, ६.१) of you who are lingering
भाविभाविन् (१.१) will be
ज्ञातास्वादःज्ञातआस्वाद (१.१) one who has known the taste
पुलिनजघनाम्पुलिन–जघना (२.१) her whose sandbanks are her hips
कःकिम् (१.१) who
विहातुम्विहातुम् (वि√हा+तुमुन्) to leave
समर्थःसमर्थ (१.१) able
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
स्याः किं चि त्क धृ मि प्रा प्त वा नी शा खं
हृ त्वा नी लं लि नं मु क्त रो धो नि म्बम्
प्र स्था नं ते पि खे म्ब मा स्य भा वि
ज्ञा ता स्वा दः पु लि नां को वि हा तुं र्थः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.