Loading data... On slow networks this could take a few minutes.
100%

गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ।
तस्मात्तस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-
न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥

अन्वयः AI गम्भीरायाः सरितः प्रसन्ने चेतसि इव पयसि प्रकृति-सुभगः ते छाया-आत्मा अपि प्रवेशं लप्स्यते। तस्मात् त्वं तस्याः कुमुद-विशदानि चटुल-शफर-उद्वर्तन-प्रेक्षितानि धैर्यात् मोघीकर्तुं न अर्हसि।
Summary AI Your reflection, naturally beautiful, will find entrance into the clear waters of the Gambhīrā river, just as it would in a pure mind. Therefore, you should not, out of stubbornness, ignore her glances, which are as white as lilies and expressed through the leaping of darting fish, for she seeks your union.
सारांश AI गम्भीर नदी के निर्मल जल में तुम्हारी परछाईं का प्रवेश वैसा ही होगा जैसे प्रसन्न मन में विचार। तुम अपनी स्थिरता के कारण उसके चंचल मछलियों रूपी कटाक्षों की उपेक्षा मत करना।
वल्लभदेवः गम्भीराख्यायाः सरितः पयसि प्रसन्ने तव स्वभावसुन्दरच्छायारूपोऽप्यात्मा प्रतिबिम्बरूपश्चेतसीव प्रवेशं लप्स्यते । तस्मात्कारणादस्या नद्याः कैरवसितानि चपलशफरोद्वर्तनप्रेक्षितानि कम्पमानमीनम्फुरितावलोकितानि धाैर्याद्गाम्भीर्यान्मोघीकर्तुं वन्ध्ययितुं नार्हसि । ततो मा गम इत्यर्थः । गमनाद्धि तानि निष्फलानि स्युः । यश्च नागरः स प्रेयस्यां रागेण वीक्षमाणायां विलम्बते । स हि तस्याश्चेतसि प्रविष्टः ॥
पदच्छेदः AI
गम्भीरायाःगम्भीरा (६.१) of the Gambhira
पयसिपयस् (७.१) in the water
सरितःसरित् (६.१) of the river
चेतसिचेतस् (७.१) in the mind
इवइव like
प्रसन्नेप्रसन्न (प्र√सद्+क्त, ७.१) clear
छायात्माछायाआत्मन् (१.१) your reflection
अपिअपि even
प्रकृतिसुभगःप्रकृतिसुभग (१.१) naturally handsome
लप्स्यतेलप्स्यते (√लभ् कर्तरि लृट् (आत्मने.) प्र.पु. एक.) will obtain
तेयुष्मद् (६.१) your
प्रवेशम्प्रवेश (२.१) entry
तस्मात्तस्मात् therefore
तस्याःतद् (६.१) her
कुमुदविशदानिकुमुदविशद (२.३) white like the white lotus
अर्हसिअर्हसि (√अर्ह् कर्तरि लट् (परस्मै.) म.पु. एक.) you should
त्वम्युष्मद् (१.१) you
not
धैर्यात्धैर्य (५.१) out of reserve
मोघीकर्तुम्मोघीकर्तुम् (√मोघीकृ+तुमुन्) to render futile
चटुलशफरोद्वर्तनप्रेक्षितानिचटुलशफरउद्वर्तनप्रेक्षित (२.३) glances which are like the darting of restless fish
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
म्भी रा याः सि रि श्चे सी प्र न्ने
छा या त्मा पि प्र कृ ति सु गो प्स्य ते ते प्र वे शम्
स्मा त्त स्याः कु मु वि दा न्य र्ह सि त्वं धै र्या
न्मो घी र्तुं टु रो द्व र्त प्रे क्षि ता नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.