तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥

अन्वयः AI तस्मिन् काले खण्डितानां योषितां नयन-सलिलं प्रणयिभिः शान्तिं नेयम्, अतः भानोः वर्त्म आशु त्यज। सः अपि नलिन्याः कमल-वदनात् प्रालेय-अस्रं हर्तुं प्रत्यावृत्तः, त्वयि कर-रुधि अनल्पाभ्यसूयः स्यात्।
Summary AI At that hour, lovers must dry the tears of their offended beloveds; therefore, quickly clear the path of the sun. He, too, has returned to wipe the dewy tears from the lotus-face of the Nalinī. If you obstruct his rays with your presence, he will surely be very angry with you for hindering his affection.
सारांश AI सूर्योदय के समय तुम सूर्य का मार्ग छोड़ देना क्योंकि वह कमलिनी के आँसू पोंछने आया है। यदि तुम उसकी किरणों को रोकोगे, तो वह तुम पर अत्यन्त क्रोधित होगा।
वल्लभदेवः अतः कारणाद्भानोः सूर्यस्य वर्त्म मार्गं त्यज । माच्छादको भूरित्यर्थः । यतस्तस्मिकाले प्रभाताख्ये खण्डितानां विप्रलब्धानामङ्गनानां प्रियैरागत्यास्रु नेत्रजलं शमनीयम् । यदि त्वमस्य पटनिभो भवसि तदालोकनपाटवाभावान्निशाशङ्कया नागमनं स्यादिति वर्त्म भानोस्त्यज । किं च सोऽपि भानुः खण्डितायाः कमलिन्याः प्रियायाः कमालादेव वदनात्प्रालेयमवश्यायमेवास्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । तेनापि पद्मिन्याः प्रार्थना कार्येत्यर्थः । अतस्त्वयि कररुधि रश्मिरोधकेऽनल्पाभ्यसूयो भवेत् । त्वयि महान्तं रोषं भावयेत् । यस्य हि प्रियां प्रार्थयमानस्य यः करमवष्टम्भीयात्तस्य तत्र मन्युर्भवति । निद्राकषायमुकुलीकृतेत्यादि' ॥
पदच्छेदः AI
तस्मिन्तद् (७.१) At that
कालेकाल (७.१) time
नयनसलिलम्नयनसलिल (१.१) tears
योषिताम्योषित् (६.३) of women
खण्डितानाम्खण्डिता (६.३) of the 'khandita' heroines
शान्तिम्शान्ति (२.१) to a state of peace
नेयम्नेय (√नी+यत्, १.१) is to be brought
प्रणयिभिःप्रणयिन् (३.३) by their lovers
अतःअतस् therefore
वर्त्मवर्त्मन् (२.१) path
भानोःभानु (६.१) of the sun
त्यजत्यज (√त्यज् कर्तरि लोट् (परस्मै.) म.पु. एक.) leave
आशुआशु quickly
प्रालेयास्रम्प्रालेयअस्र (२.१) dew-tears
कमलवदनात्कमलवदन (५.१) from the lotus-face
सःतद् (१.१) he
अपिअपि too
हर्तुम्हर्तुम् (√हृ+तुमुन्) to remove
नलिन्याःनलिनी (६.१) of the lotus plant
प्रत्यावृत्तःप्रत्यावृत्त (प्रति+आ√वृत्+क्त, १.१) having returned
त्वयियुष्मद् (७.१) towards you
कररुधिकररुध् (७.१) obstructing his rays
स्यात्स्यात् (√अस् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) would be
अनल्पाभ्यसूयःअनल्पअभ्यसूय (१.१) greatly resentful
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
स्मि न्का ले लि लं यो षि तां ण्डि ता नां
शा न्तिं ने यं प्र यि भि तो र्त्म भा नो स्त्य जा शु
प्रा ले या स्रं ना त्सो ऽपि र्तुं लि न्याः
प्र त्या वृ त्त स्त्व यि रु धि स्या ल्पा भ्य सू यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.