तां कस्यां चिद्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः ।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥

अन्वयः AI सुप्त-पारावतायां कस्यां चित् भवन-वलभौ तां रात्रिं नीत्वा, चिर-विलसनात् खिन्न-विद्युत्-कलत्रः, सूर्ये दृष्टे पुनरपि भवान् अध्व-शेषं वाहयेत्। अभ्युपेत-अर्थ-कृत्याः सुहृदाम् न खलु मन्दायन्ते।
Summary AI After spending the night on some palace roof where pigeons sleep, and resting your lightning-wife who is weary from constant flashing, continue your remaining journey once the sun appears. Those who have undertaken a task for a friend certainly do not delay in fulfilling their commitment, as their loyalty drives them forward.
सारांश AI महलों की छतों पर रात बिताकर सूर्योदय होने पर अपनी यात्रा पुनः आरम्भ करना। जो मित्र का कार्य स्वीकार कर लेते हैं, वे उसे पूरा करने में आलस्य या विलम्ब नहीं करते।
वल्लभदेवः तां पूर्वोक्तां रात्रिं कस्यामपि भवनवलभौ गृहोपरिपुरे नीत्वातिवाह्य ततः मूर्योदये भूयोऽपि भवान्मार्गमवशिष्टं वाहयेदुल्लङ्घयेत् । यस्मान्मित्राणां यैरर्थकृत्यं प्रयोजनमभ्युपेतमूरीकृतं शिरसाङ्गीकृतं ते न खलु मन्दायन्ते नैवालसा भवन्ति । कीदृश्यां वलभौ । सुप्ताः पारावताः कपोतविशेषाः यत्र । ते हि कण्ठरुतश्रवणार्थं नागरकैर्गृहे धार्यन्ते । त्वं कीदृशः । चिरं विलसनात्स्विन्नं श्रान्तं विद्युदेव कलत्रं भार्या यस्य सः । अत एव वलभौ विश्रमणम् । अमन्दो मन्दो भवति मन्दायते । भृशादित्वात्क्यङ् । अर्थश्चासौ कृत्यमर्थकृत्यम् । अर्थः प्रयोजनम् । अवश्यकार्यत्वाच्चास्य कृत्यत्वम् ॥
पदच्छेदः AI
ताम्तद् (२.१) that
कस्याम्किम् (७.१) on some
चित्चित्
भवनवलभौभवन–वलभी (७.१) on the rooftop terrace of a mansion
सुप्तपारावतायाम्सुप्त–पारावता (७.१) where pigeons are sleeping
नीत्वानीत्वा (√नी+क्त्वा) having spent
रात्रिम्रात्रि (२.१) night
चिरविलसनात्चिरविलसन (५.१) from prolonged flashing
खिन्नविद्युत्कलत्रःखिन्नविद्युत्कलत्र (१.१) you whose lightning-wife is weary
दृष्टेदृष्ट (√दृश्+क्त, ७.१) is seen
सूर्येसूर्य (७.१) when the sun
पुनःपुनर् again
अपिअपि also
भवान्भवत् (१.१) you
वाहयेत्वाहयेत् (√वह् +णिच् कर्तरि विधिलिङ् (परस्मै.) प्र.पु. एक.) should traverse
अध्वशेषम्अध्वन्शेष (२.१) the rest of the journey
मन्दायन्तेमन्दायन्ते (√मन्दाय कर्तरि लट् (आत्मने.) प्र.पु. बहु.) become slow
not
खलुखलु indeed
सुहृदाम्सुहृद् (६.३) of friends
अभ्युपेतार्थकृत्याःअभ्युपेतअर्थकृत्य (१.३) those who have undertaken a task for a purpose
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
तां स्यां चि द्भ भौ सु प्त पा रा ता यां
नी त्वा रा त्रिं चि वि ना त्खि न्न वि द्यु त्क त्रः
दृ ष्टे सू र्ये पु पि वा न्वा ये ध्व शे षं
न्दा न्ते लु सु हृ दा भ्यु पे ता र्थ कृ त्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.