Loading data... On slow networks this could take a few minutes.
100%

अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले
स्थातव्यं ते नयनविषयं यावदभ्येति भानुः ।
कुर्वन्संध्याबलिपटहतां शूलिनः श्लाघनीया-
मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥

अन्वयः AI जलधर अन्यस्मिन् काले अपि महाकालम् आसाद्य भानुः नयन-विषयं यावत् अभ्येति तावत् ते स्थातव्यम्। शूलिनः श्लाघनीयां संध्या-बलि-पटहतां कुर्वन् आमन्द्राणां गर्जितानां अविकलं फलं लप्स्यसे।
Summary AI O Cloud! Even if you reach the Mahākāla temple at another time, wait until the sun sets. By performing the commendable service of a drum during the evening worship of Lord Śiva with your deep, resonant thundering, you will obtain the full reward of your voice, contributing to the divine ceremony with your natural power.
सारांश AI हे मेघ, महाकाल मन्दिर में सूर्यास्त तक रुकना। सन्ध्या की आरती के समय अपनी गम्भीर गर्जना से नगाड़े का कार्य करके तुम भगवान शिव की सेवा का पूर्ण फल प्राप्त करोगे।
वल्लभदेवः हे जनधरान्यस्मिन्नपि कालेऽवसरे महाकालाभिधानं भगवन्तमासाद्य तावत्त्वयासितव्यं यावदर्कश्चक्षुर्गोचरतां चक्षुर्दृश्यत्वमुपैति । प्रातःसंध्यासमयपर्यन्तमित्यर्थः । किमर्थमित्याह । शूलिनो महाकालस्य संध्याबल्यर्थं पटहतां तूर्यत्वं श्लाघनीयां विदधत्त्वमामन्द्राणां सर्वमधुराणां गर्जितानां परिपूर्णं फलं प्राप्स्यसि । देवानां हि बलिकाले ढक्कापटहादिवाद्यैर्भाव्यम् । तत्र तु भवद्ध्वनितान्येव पटहीभविष्यन्तीति तत्साफल्यम् । स्थातव्यं त इति कृत्यानां कर्तरि वा ॥
पदच्छेदः AI
अपिअपि even
अन्यस्मिन्अन्य (७.१) at another
जलधरजलधर (८.१) O cloud
महाकालम्महाकाल (२.१) the Mahakala temple
आसाद्यआसाद्य (आ√सद्+ल्यप्) having reached
कालेकाल (७.१) time (i.e., untimely)
स्थातव्यम्स्थातव्य (√स्था+तव्यत्, १.१) should be stayed
तेयुष्मद् (३.१) by you
नयनविषयम्नयनविषय (२.१) the range of sight
यावत्यावत् until
अभ्येतिअभ्येति (अभि√इ कर्तरि लट् (परस्मै.) प्र.पु. एक.) goes beyond
भानुःभानु (१.१) the sun
कुर्वन्कुर्वत् (√कृ+शतृ, १.१) performing
संध्याबलिपटहताम्सन्ध्याबलिपटहता (२.१) the function of the drum for the evening worship
शूलिनःशूलिन् (६.१) of the trident-bearer, Shiva
श्लाघनीयाम्श्लाघनीय (√श्लाघ्+अनीयर्, २.१) praiseworthy
आमन्द्राणाम्आमन्द्र (६.३) of deep
फलम्फल (२.१) fruit
अविकलम्अविकल (२.१) full
लप्स्यसेलप्स्यसे (√लभ् कर्तरि लृट् (आत्मने.) म.पु. एक.) you will obtain
गर्जितानाम्गर्जित (६.३) of your thunderings
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
प्य न्य स्मि ञ्ज हा का मा सा द्य का ले
स्था व्यं ते वि यं या भ्ये ति भा नुः
कु र्व न्सं ध्या लि तां शू लि नः श्ला नी या
मा न्द्रा णां वि लं प्स्य से र्जि ता नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.