Loading data... On slow networks this could take a few minutes.
100%

जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूमै-
र्बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः ।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखिन्नान्तरात्मा
नीत्वा रात्रिं ललितवनितापादरागाङ्कितेषु ॥

अन्वयः AI अस्याः हर्म्येषु जाल-उद्गीर्णैः केश-संस्कार-धूमैः उपचित-वपुः, बन्धु-प्रीत्या भवन-शिखिभिः दत्त-नृत्त-उपहारः, कुसुम-सुरभिषु ललित-वनिता-पाद-राग-अङ्कितेषु रात्रिं नीत्वा अध्व-खिन्न-अन्तरात्मा।
Summary AI Spend the night on the palace rooftops of Ujjayinī, which are fragrant with flowers and marked by the red cosmetic dye from the feet of beautiful women. Your body will grow thick with the incense smoke from windows used for scenting hair, and the domestic peacocks will offer you dances out of friendly affection, soothing your travel-weary soul.
सारांश AI उज्जयिनी के सुगन्धित महलों में, जहाँ खिड़कियों से धूप का धुआँ निकलता है और जहाँ पालतू मोर नृत्य करते हैं, तुम रात बिताना। वहाँ सुन्दरियों के चरणों के महावर की छाप तुम्हें सुख प्रदान करेगी।
वल्लभदेवः अस्या उज्जयिन्याः सौधेष्वध्वखिन्नानन्तरात्मा निशामतिवाह्य चण्डेश्वरम्य शंभोर्धामायतनं याया गच्छेः । कीदृशः । जालोद्गीर्णैर्गवाक्षविवरनिर्गतैरङ्गनामूर्धजोपस्कारधूमैरुपचितवपुः पीवरतनुः । धूमप्रायत्वादभ्राणाम् । तथा गृहमयूरैः सुहृत्स्नेहाद्दत्तो वितीर्णो नृत्तमेवोपहारो बलिर्यस्य । ते हि त्वामालोक्य सुहृत्स्नेहान्नृत्यन्ति । कीदृशेषु हर्म्येषु । कुसुमैरूपकारपुष्पैः सुगन्धिषु । तथा ललितानां सविलासानां वनितानां पादानामलक्तकेनाङ्कितेषु चिह्नितेषु । त्वं कीदृशः । गणैः प्रीत्यालोक्यमानः । कुतः । भर्तुः शम्भोः कण्ठच्छविर्गलनिभकान्तिरित्यतो हेतोः । कीदृशं धाम । पुण्यं पवित्रम् । तथा गन्धवत्याख्याया नद्या मरुद्भिर्वातैर्धूतोद्यानमुल्लसितोपवनम् । कीदृशैः । कुवलयरजोगन्धिभिरुत्पलरेणुसौरभं विद्यते येषां तैः । तथा तोयक्रीडायां जलकेलौ निरताः सक्ता या युवतयस्तासां स्नानेन तिक्तैः कटुकैः । अङ्गरागसंक्रमणात् ॥
पदच्छेदः AI
जालोद्गीर्णैःजालउद्गीर्ण (३.३) emitted from windows
उपचितवपुःउपचितवपुस् (१.१) with your body nourished
केशसंस्कारधूमैःकेशसंस्कारधूम (३.३) by the perfumed smoke for drying hair
बन्धुप्रीत्याबन्धुप्रीति (३.१) with the affection of a kinsman
भवनशिखिभिःभवनशिखिन् (३.३) by the domestic peacocks
दत्तनृत्तोपहारःदत्तनृत्यउपहार (१.१) to whom the offering of a dance is given
हर्म्येषुहर्म्य (७.३) in the mansions
अस्याःइदम् (६.१) of this city
कुसुमसुरभिषुकुसुमसुरभि (७.३) fragrant with flowers
अध्वखिन्नान्तरात्माअध्वन्खिन्नअन्तरात्मन् (१.१) with your inner self weary from the journey
नीत्वानीत्वा (√नी+क्त्वा) having spent
रात्रिम्रात्रि (२.१) the night
ललितवनितापादरागाङ्कितेषुललितवनितापादरागअङ्कित (७.३) marked with the lac-dye from the feet of charming women
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
जा लो द्गी र्णै रु चि पुः के सं स्का धू मै
र्ब न्धु प्री त्या शि खि भि र्द त्त नृ त्तो हा रः
र्म्ये ष्व स्याः कु सु सु भि ष्व ध्व खि न्ना न्त रा त्मा
नी त्वा रा त्रिं लि नि ता पा रा गा ङ्कि ते षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.