वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः
संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः ।
निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः संनिपत्य
स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥

अन्वयः AI वीचि-क्षोभ-स्तनित-विहग-श्रेणि-काञ्ची-गुणायाः, संसर्पन्त्याः, स्खलित-सुभगं दर्शित-आवर्त-नाभेः निर्विन्ध्यायाः पथि संनिपत्य रस-अभ्यन्तरः भव। हि स्त्रीणाम् आद्यं प्रणय-वचनं प्रियेषु विभ्रमः।
Summary AI On your way, unite with the Nirvindhyā river and enjoy her essence. She appears like a woman with a girdle of chirping birds startled by waves, moving with a graceful stumble and revealing her navel in the form of whirlpools. Indeed, for women, such graceful and playful gestures are the first expressions of love towards their beloveds.
सारांश AI पक्षी रूपी करधनी वाली और भँवर रूपी नाभि दिखाने वाली निर्विन्ध्या नदी के रस का आस्वादन करना। स्त्रियों का प्रेमियों के प्रति विलासपूर्ण हाव-भाव ही उनका पहला प्रेम-निवेदन होता है।
वल्लभदेवः निर्विन्ध्याख्या नदी । तस्याः पथि प्रवाहे संनिपत्य संश्लिष्य रसाभ्यन्तरो भव पानीयगर्भः स्याः । अपः पिबेरित्यर्थः । अथ च रमाभ्यन्तरः शृङ्गारवासितो भवेरिति वक्रोक्तिः । तां कामयेथा इत्यर्थः । कामिनीसाधर्म्यमाह । कीदृश्यास्तस्याः । वीचिक्षोभण कल्लोलकम्पेन स्तनिता कोकूयमाना या विहगश्रेणी पक्षिमाला सैव काञ्चीगुणो रशनादाम यस्याः । तथाभ्यादौ स्खलितेन परिलुठितेन सुभगं सुन्दरं संसर्पन्त्या वहन्त्याः । तथा दर्शितावर्त एव नाभिर्यस्या तस्याः । आह्वानाभावे कथं मम रागिता युक्तेत्याह । नारीणां विभ्रमो विलास एव यस्मात्प्रियेषु प्रणयवचनं प्रार्थनावचः प्रीतिवाक्यं वा । यदालोकनवशादानानां विभ्रमाः प्रवर्तन्ते तैरेवासावभ्यर्थितो भवेत् । साक्षात्तु तासां प्रार्थना लाघवकारिणी । अत्र चावर्तनाभिदर्शनादिको विलासः प्रवृत्त एव ॥
पदच्छेदः AI
वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाःवीचिक्षोभस्तनितविहगश्रेणि–काञ्चीगुणा (६.१) of her whose girdle-string is the line of birds crying from the agitation of the waves
संसर्पन्त्याःसंसर्पन्ती (सम्√सृप्+शतृ, ६.१) of her who is meandering
स्खलितसुभगम्स्खलितसुभगम् gracefully in her stumbling gait
दर्शितावर्तनाभेःदर्शितआवर्तनाभि (६.१) of her who displays her navel in the form of a whirlpool
निर्विन्ध्यायाःनिर्विन्ध्या (६.१) of the Nirvindhya river
पथिपथिन् (७.१) on the way
भवभव (√भू कर्तरि लोट् (परस्मै.) म.पु. एक.) be
रसाभ्यन्तरःरसअभ्यन्तर (१.१) one whose essence is intertwined
संनिपत्यसंनिपत्य (सम्+नि√पत्+ल्यप्) having come into contact with
स्त्रीणाम्स्त्री (६.३) of women
आद्यम्आद्य (१.१) the first
प्रणयवचनम्प्रणयवचन (१.१) declaration of love
विभ्रमःविभ्रम (१.१) amorous gesture
हिहि for
प्रियेषुप्रिय (७.३) towards their beloveds
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
वी चि क्षो स्त नि वि श्रे णि का ञ्ची गु णा याः
सं र्प न्त्याः स्ख लि सु गं र्शि ता र्त ना भेः
नि र्वि न्ध्या याः थि सा भ्य न्त रः सं नि त्य
स्त्री णा मा द्यं प्र नं वि भ्र मो हि प्रि ये षु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.